________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः ।
७९७
पशुरक्षणं वैश्यस्य न केवलं जीविका यैर्यावद्धर्माय प्रीतिं दर्शयत्यर्थवादेन । कथं पुनर्दृष्टे सत्यदृष्टमुक्तं प्रजापालन व नियमात्परिपालनीयं त्वयेति नियोगपरिदानं क्षत्रियस्य प्रजापालनेऽधिकारो निरूपितः ब्राह्मणस्य प्रायश्चित्तोपदेशादिना जपहोमादिना च “ आदित्याज्जयते वृष्टिः " इति सर्वाधिकारः । दृष्टान्तार्थं चैतत् । तथैव धर्म एव वैश्यस्य पशुरक्षणादिः || ३२७ ॥
न च वैश्यस्य कामः स्यान्न रक्षेयं पशु निति ||
वैश्ये चेच्छति नान्येन रक्षितव्याः कथंचन ।। ३२८ ॥
ननु को जीवितार्थ कामः यदुक्तं यद्यप्यदृष्टं तदा दृष्टाश्रितमेव भोजने प्राङ्मुखतायामेव तत्र कथंचिदिदमुच्यते । न च वैश्यस्य कामं स्यादिति न ह्यबुर्भुक्ष्यमाणः प्रत्यवैति । सत्यमेव कृष्टा विकृष्टं पाशुपाल्यमिति ज्ञापयितुं । कश्चिन्मन्यते सर्वाण्येतानि १० नियमार्थानि तुल्यफलानीति । तत्र तुल्यफलत्वे च पक्षेऽकामोऽपि स्यात्कर्मान्तरं कामयमानस्य यदा त्वन्येभ्यो गुणवत्तरो यदा तदा तु तेनाजीवेन्न कर्मान्तरे प्रकृतिः । अत एव तदालंबनो जीवेत् ॥ ३२८ ॥
मणिमुक्ताप्रवालानां लोहानां तातवस्य च ॥
गन्धानां च रसानां च विद्यादर्घबलाबलम् || ३२९ || लोहशब्देन ताम्रायस्कांस्यान्याह । अर्घबलाबलं न्यूनताऽर्घस्य न्यूनताधिक्ये देशकालापेक्षे । कस्मिन्देश इदं महार्घे कस्मिन्वाऽपचितार्थमेवं कालेऽपि ॥ ३२९ ॥ बीजानामुप्तिविच स्यात्क्षेत्रदोषगुणस्य च ॥
मानयोगं च जानीयात्तुलायोगांश्च सर्वशः || ३३० ॥
इदं बीजं विस्तृतमुच्यत इदं संहतमुच्यत इत्येनामुप्तिं विद्यात् । इदं बीजमस्मिन् २० क्षेत्रे प्ररोहतीदं न इदं च बलवत्फलति एवमादयो गुणदोषाः द्रोणशूर्पाकादयो मानविशेषास्तेषां योगा ये हस्तेन मीयन्ते ॥ ३३० ॥
सारासारं च भाण्डानां देशानां च गुणागुणान् ॥ लाभालाभं च पण्यानां पशूनां परिवर्धनम् ॥ ३३१ ॥
१५
For Private And Personal Use Only
भाण्डशब्देन विक्रेयं वस्त्रा जिनान्युच्यन्ते । तत्र सारासारता यत्कालान्तरे २५ स्थितं च न नश्यति तत्सारं तदितरदसारं । अस्मिन्देशे व्रीहयो भूयांसो अस्मिन्काले यवा अस्मिन्नीदृश आचार ईदृशो जानपदानां स्वभाव एवामादयो देशे गुणागुणाः । अनेन च यवसेनेदृशेन च लवणेनास्मिन्काले प्रयुक्तेन पशवो वर्धन्त इति ॥ ३३१ ॥
१ ण-र-बुभुज्यमाना