SearchBrowseAboutContactDonate
Page Preview
Page 841
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिभाष्यसमलंकृता । [ नवमः .. यत्क्षत्रियब्राह्मणरहितं राज्यं मन्त्रिपुरोहितादयो यत्र न ब्राह्मणास्तत्र कुतः समृद्धिः । एवं ब्राह्मणा अपि राजोपाश्रिताः कुतः संपत्तिं लभन्ते । उभौ युक्तौ जगज्जयतः । ब्रह्मक्षत्रशब्दौ ब्राह्मणक्षत्रियनातिवचनौ ॥ ३२२ ॥ दत्वा धनं तु विप्रेभ्यः सर्वदण्डसमुत्थितम् ॥ पुत्र राज्यं समासृज्य कुर्वीत प्रायणं रणे ॥ ३२३ ॥ यदा तु रजसाऽभिभूयेत कृतकृत्यः स्यात्तदा वसुनि धने सति सर्वदण्डसमुद्भूतं ब्राह्मणेभ्यो दद्यात् । महापातकिधनस्य वरुणाय प्रतिपादनमुक्तं न राज्ञा तद्गृहीतव्यं । अन्यत्तु दण्डधनं राज्ञा दृष्टादृष्टकार्यार्थवादाबहुधनमस्ति प्रयाणकालश्च तदा सर्वस्यायं विनियोगः । अन्ये तु दण्डग्रहणं करशुल्कादीनामपि प्रदर्शनार्थ व्याचक्षते । तथा सति १० सर्वस्वं दद्यादित्युक्तं भवति । वाहनायुधभूमिपुरुषवर्न सर्व दातव्यं । एवं तु व्याख्यान 'पुत्रे राज्यं समासाद्य इति' न घटते । न हि तस्य कोशस्य राजकरणसंभवः । कुर्वीत प्रायणं रणे आत्मत्यागे संग्रामं कुर्यात् । यदि कथंचिदन्त्यावस्थायां रणं नोपलभेत तदाग्न्युदकादिना शरीरं जह्यात् । फलातिशयसंपत्तिस्तु रणे समासं जनमारोपणम् ॥ ३२३ ॥ एवं चरन्सदा युक्तो राजधर्मेषु पार्थिवः ॥ हितेषु चैव लोकस्य सर्वान्भृत्यानियोजयेत् ॥ ३२४ ।। एवं चरन्विहरन्राजधर्मेषु यथाशास्त्रोपदिष्टेषु तदायुक्तस्तत्परः लोकेभ्यस्तत्परः लोकेभ्यः स्वराष्ट्रीयेभ्यो हितेषु सर्वान्भृत्यान्नियोजयेत् ॥ ३२४ ॥ एषोऽखिलः कर्मविधिरुक्तो राज्ञः सनातनः ॥ इमं कर्मविधि विद्यात्क्रमशो वैश्यशूद्रयोः ॥ ३२५ ॥ आयेनानेन शूद्रेण कण्टकशुद्धिपर्यन्तो राजधर्म उपसंहियते । द्वितीयेन वैश्यशूद्रयोरुपचारे चेत्युक्तमनुस्मारयन्ति ॥ ३२५ ॥ वैश्यस्तु कृतसंस्कारः कृत्वा दारपरिग्रहम् ॥ ...वार्तायां नित्ययुक्तः स्यात्पशूनां चैव रक्षणे ॥ ३२६ ॥ २५. कृतसंस्कार उपनीतः कृतविवाहश्च । वार्तायां वक्ष्यमाणकालसमुदायो वार्ता । तत्र नियुक्तः स्यात् । यथा बार्हस्पत्ये वार्ता समुपदिष्टा ॥ ३२६ ॥ प्रजापतिहि वैश्याय सृष्ट्वा परिददे पशून् ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः ॥ ३२७ ॥ १ण-र-धर्म । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy