SearchBrowseAboutContactDonate
Page Preview
Page 840
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः । लोकास्त्रयः पृथिव्यादयः । देवा आहुतिद्वारेण ब्राह्मणोपाश्रिताः । अध्यापनाधिक्येन कर्मबहुत्वेन ब्राह्मणो देवानामाश्रयो न तथा क्षत्रियवैश्यौ ॥ ३१६ ।। अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत् ॥ प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् ॥ ३१७ ॥ जातिमात्राश्रयाणामनवज्ञानं न विद्वत्तामपक्षेत । नादिक्रियास्विव यथा चैतन्न ५ पादतः कुर्यादित्यग्रौ ॥ ३१७ ॥ श्मशानेष्वपि तेजस्वी पावको नैव दुष्यति ॥ हूयमानश्च यज्ञेषु भूय एवाभिवर्धते ॥ ३१८॥ गतार्थोऽयं दुराचारोऽप्यविज्ञेय इत्यर्थः ॥ ३१८ ॥ एवं यद्यप्यनिष्टेषु वर्तन्ते सर्वकर्मसु ॥ सर्वथा ब्राह्मणाः पूज्याः परमं दैवतं हि तत् ॥ ३१९ ॥ अनिष्ठेषु प्रतिषिद्धेषु वर्तमाना मृदूपक्रमैर्यथाशास्त्रं दण्ड्या न सहसाऽऽक्रम्य वर्णान्तरवत् ॥ ३१९ ॥ क्षत्रस्यातिप्रवृद्धस्य ब्राह्मणान्प्रति सर्वशः॥ .. ब्रह्मैव सन्नियंतृ स्यात्क्षत्रं हि ब्रह्मसंभवम् ॥ ३२० ॥ क्षत्रियस्य ब्राह्मणान्प्रतिबाधितुं प्रवृत्तस्य ब्राह्मणा एव संनियन्तारः। श्रीमदावलिप्तावस्थाभङ्गेन वर्तमानाः क्षत्रिया जपहोमादिशापादिना ब्राह्मणैर्मार्गे व्यवस्थाप्यन्ते । अत्र हेतुः क्षत्रं ब्रह्मसंभवं ब्राह्मणजातेः सकाशात्क्षत्रियाणां संभवः । अत्रार्थवाद एवायं ॥ ३२०॥ ननु यो यस्योत्पत्तिहेतु सौ तस्य नाशकः । नैवं अन्योऽग्निब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् ॥ तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ ३२१ ॥ अद्भय ओषधिवनस्पतिभ्य एव जायत इत्येवमग्निरद्भय एव उत्पन्नस्तस्य सर्वगं तेजः सर्वदाह्यं दहति तेजसाऽभिभवति अपः प्राप्य तदस्य तेजः शाम्यति । अश्मनो लोहं खड्गादि तेन सर्व विदार्यते अश्मसंपातात्स्फुटति । एवं क्षत्रियाः सर्वजिगीषवो २५ विजयन्ते ब्राह्मणेषु चेदौद्धत्येन वर्तन्ते तदा विनश्यन्ति ॥ ३२१ ॥ नाब्रह्मक्षत्रमृध्नोतिजाक्षत्रं ब्रह्म वर्धते ॥ ब्रह्म क्षत्रं च संपृक्तमिह चामुत्र वर्धते ॥ ३२२ ॥ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy