SearchBrowseAboutContactDonate
Page Preview
Page 839
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७९५ मेधातिथिभाष्यसमलंकृता। नवमः अवशङ्किता एव कार्यकारिणो निग्रहीतव्या यथा न पलायन्ते ॥ ३०८ ॥ परिपूर्ण यथा चन्द्रं दृष्ट्वा त्दृष्यन्ति मानवाः॥ तथा प्रकृतयो यस्मिन्स चान्द्रव्रतिको नृणः ॥ ३०९ ॥ अक्रोधनेन प्रसाधनालङ्कारवता प्रत्दृष्टवदनेन प्रजादर्शनकाले भवितव्यं । निर्वार्ता ५ आपनपरितापा भवन्तीत्यर्थः ॥ ३०९ ॥ प्रतापयुक्तस्तेजस्वी नित्यं स्यात्पापकर्मसु ॥ दुष्टसामन्तहिंस्रश्च तदानेयं व्रतं स्मृतम् ॥ ३१ ॥ भृशमुद्वेजनीयो दुष्ट इत्याग्नेयव्रतं । सामन्ता अमात्या एव बहुसाधनयुक्ताः॥३१०॥ यथा सर्वाणि भूतानि धरा धारयते समम् ॥ तथा सर्वाणि भूतानि बिभ्रतः पार्थिवं व्रतम् ॥ ३११॥ धरा पृथ्वी । तद्वद्दीनानाथाश्च वंशाश्च भरणीयाः ॥ ३११॥ एतैरुपायैरन्यैश्च युक्तो नित्यमतन्द्रितः ॥ स्तेनान्राजा निगृह्णीयात्स्वराष्ट्र पर एव च ॥ ३१२ ॥ उपसंहारः श्लोकः । एतैर्देवव्रतैरन्यैर्लोकतोऽवगम्यैः ॥ ३१२ ॥ परामप्यापदं प्राप्तो ब्राह्मणान्न प्रकोपयेत् ॥ ते ह्येनं कुपिता हन्युः सद्यः सबलवाहनम् ॥ ३१३ ॥ यः क्षीणकोशो बलीयसा च राज्ञा दण्ड्यते तथापि न ब्राह्मणधनमप्यापदि ग्रहीतव्यं । न चावज्ञानादिना प्रकोपनीयाः ॥ ३१३ ॥ यैः कुतः सर्वभक्ष्योऽग्निरपेयश्च महोदधिः॥ क्षयी चाप्यायितः सोमः को न नश्येत्प्रकोप्य तान् ॥ ३१४ ॥ प्रागुक्तार्थसिद्धये ब्राह्मणमाहात्म्यं इतिहासं लोकप्रसिद्धमनुवदति । एष्वर्थेष्वाल्यानानि महाभारतादवगमयितव्यानि ॥ ३१४ ॥ लोकानन्यान्सजेयुर्ये लोकपालांश्च कोपिताः ॥ देवान्कुर्युरदेवांश्च कः क्षिण्वंस्तान्त्स मूभुयात् ॥ ३१५॥ २५ क्षिणोति छादयति तदविशेषात्स्मृतीनां क्षिण्वन्हि संक्षेपोऽप्युत्तमानामेवेति युधिष्ठिरेण गाण्डीवे विक्षिप्ते व्यासमुनिना दर्शितम् ॥ ३१५॥ यानुपाश्रित्य तिष्ठन्ति लोका देवाश्च सर्वदा ॥ ब्रह्म चैव धर्म येषां को हिंस्यात्ताजिजीविषुः ॥३१६ ॥ १ण-र-निर्वातपरितापाभवन्तीत्यर्थः । २ फ-ण्डि । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy