SearchBrowseAboutContactDonate
Page Preview
Page 838
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः। ७९३ इतश्च कर्मारंभपरेण भवितव्यं । अनारंभी कलिः स्यात्स च महान्दोषः । न चैवं मन्तव्यं राज्ञा कलिर्नाम कालविशेष इतिहासप्रसिद्धैः । कथमहं स्यामिति यतो राज्ञो वृत्तानि सर्वाण्येतानि युगानि तदुत्तरेण निर्दिश्यते ॥ ३०१ ॥ कलिः प्रसुप्तो भवति सजाग्रद्वापरं युगम् ॥ कर्मस्वभ्युद्यतस्त्रेता विचरंस्तु कृतं युगम् ॥ ३०२ ॥ .: ९ अनुत्थानशीलः प्रसुप्तः कलिर्भवति। जानानश्चोत्कर्षाभ्युपायानातिष्ठन्सजाग्रहापरं भवति । व्यवसितकर्मप्रयोगस्त्रेतायुगं भवति । विश्वस्य सर्वरूपाणि यथाशास्त्रं कर्मफलसंपादाकृतयुगं भवति ॥ ३०२॥ इन्द्रस्यार्कस्य वायोश्च यमस्य वरुणस्य च ॥ चन्द्रस्यानेः पृथिव्याश्च तेजोवृत्तं नृपश्चरेत् ॥ ३०३ ॥ तेजः शुक्रं कार्य सामर्थ्यमित्यर्थः ॥ ३०३ ॥ वार्षिकांश्चतुरो मासान्यथेन्द्रोऽभिप्रवर्षति ॥ तथाभिवरेत्स्वं राष्ट्र कामैरिन्द्रव्रतं चरन् ॥ ३०४ ॥ मात्र प्रकरणे मासनियमोऽभिप्रेतः । केवलं चतुर्पु मासेषु सन्ततवर्षी पर्जन्यो भवति । अतः सन्ततं सर्वकालं स्वराष्ट्रं कामैः पूरयेदित्युक्तं भवति । तथा कर्तव्यं यथा १५. स्वराष्ट्रिया अनुरक्ता भवन्ति ॥ ३० ॥ अष्टौ मासान्यथादित्यस्तोयं हरति रश्मिभिः ॥ तथा हरेत्करं राष्ट्रान्नित्यमव्रतं हि तत् ॥३०५॥ स्तोकं स्तोकमपि रसमीपत्तापेनादत्ते यथाऽऽदित्यस्तथा करमादद्यादित्येष उपमार्थः ॥ ३०५॥ प्रविश्य सर्वभूतानि यथा चरति मारुतः ॥ तथा चारैः प्रवेष्टव्यं व्रतमेतद्धि मारुतम् ॥ ३०६ ॥ यथा यमः प्रियद्वेष्यौ प्राप्ते काले नियच्छति ॥ तथा राज्ञा नियन्तव्याः प्रजास्तद्धि यमव्रतम् ॥ ३०७॥ अपराधेन प्रियद्वेष्ययोनिग्रहसमत्वेन वर्तितव्यम् ॥ ३०७ ॥ घरुणेन यथा पाशैर्बद्ध एवाभिश्यते ॥ तथा पापाभिगृह्णीयागुतमेतद्धि वारुणम् ॥ ३०८ ॥ १-२-विकलं सुकृतं युगम् । २ फ-विशेषत । ३ ण-र-द्ध । ४ फ-दि । ५ ण-र-विकृतं सुकृतं युगम् । ६ फ-ठान । -र-मपीडयन्त्री पत्तापेन । 4 . For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy