________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७९२ मेधातिथिभाष्यसमलंकृता ।
[ नवमः महता । तस्मात्सर्वाः प्रकृतयो यत्नतः पालनीयाः । असद्दण्डादिना न राष्टं कर्शनीयं । चोराग्रुपद्रवेभ्यश्च यत्नतो रक्ष्यमिति तात्पर्यार्थः । अतः कण्टकशुद्धिशेषोऽयम् ॥ २९७॥
चारेणोत्साहयोगेन क्रिययैव च कर्मणाम् ॥ स्वशक्ति परशक्तिं च नित्यं विद्यात्परामनोः ॥ २९८ ॥
परस्यात्मनश्च नित्यं शक्ति विद्यात् । किमयं प्रारिप्सते । किंच मम कर्तु शक्तिः किं चाहमस्मिन्निति एतन्नित्यं वेदितव्यं । कथं चैतच्छक्यते वेदितुं चारेण सप्तमाध्यायोक्तेन । उत्साहयोगेन दानादिपरितोषिता उत्साहेन युज्यन्ते । संपन्नकृष्यादिफलाश्च क्रिययैव च कर्मणां । कर्माणि वा निवेशादीनि । तदारंभेन शक्तिमान्
रिपुरवगम्यते । तानि ह्यर्थसंपत्कराणि ततः सामर्योत्पत्तेः ।। २९८ ॥ १० पीडनानि च सर्वाणि व्यसनानि तथैव च ।
आरभेत ततः कार्य संचिन्त्य गुरुलाघवम् ॥ २९९ ॥
पीडनानि नरकदुर्भिक्षपातादीनि । तथाऽवर्षादिवर्षपर्जन्यमूषिकशलभाशनिप्रभृतयः व्यसनानि कामक्रोधसमुत्थानि । स्वपुत्रसंप्राप्तदैवविघटनयोपन्यासेन वा । तथापि न
नित्यमुत्साहेन भवितव्यं । अथवा न संतोषिणा भवितव्यं । अथ तावत्षागुण्यचिन्ता १५ अन्वाहिको चायव्ययौ कयाचिन्मात्रया गतौ च राष्ट्रवृत्तं प्रकृतिसमहीतं चरमुखावधृतम् ।
आरभेतैव कर्माणि श्रान्तः श्रान्तः पुनः पुनः॥ कर्माण्यारभमाणं हि पुरुषं श्रीनिषेवते ॥ ३०० ॥ .
कर्मसूद्युक्तः पुरुषः श्रिया युज्यते इति सिद्धानुवादः । यद्यपि कुतश्चित्कर्मणो. नष्ठितात्कथंचित्फलं न संप्राप्तं तथापि निरुत्साहे न भवितव्यम् । अथवा न २० संतोषेणान्वितव्यमाद्यातक्षागुण्यचिन्ताकृता । आन्वाहिकायव्यनौ कथाचिन्मात्रयोपगतो
राज्यवृत्तं प्रकृतिसमीहितं चरमुखादवाप्तं गीतादिसुखानुभवव्यापारान्तरेण वा पुनः कर्माणि वेदितव्यानि । पुरुषग्रहणं तिष्ठतु तावदाजानोऽपि जनपद उद्योगश्रियोपचीयन्ते एतर्युक्तम् " आमृत्योः श्रियमन्विच्छेत्” इति ॥ ३०० ॥
कृतं त्रेतायुगं चैव द्वापरं कलिरेव च ॥ २५ राज्ञो वृत्तानि सर्वाणि राजा हि युगमुच्यते ॥ ३०१॥
१फ-महीपतिः । २ ण-र-परस्परात्मनश्च । ३ फ-मयि । ४ फ-शक्तः। ५ ण-र-प्रचार मण्डलस्येत्यत्र प्रयुक्तं । ६ण-र-शून्य विवेशादिनि । ७-र-शकिर्यापुनरवगम्यते । ८ -र-त्तिः । ९ण-र-वा। १० ण-र-मरक । ११ फ-पर्यय । १२ण-र-व्यसनानिकामक्रोधसमुत्यानि ।स्वपरात्मनोः संचित्य तथा गुरुभावः तयो कस्यैतद्गुरु कस्याल्पमिति । तत आरभत कार्य । संदविग्रहादिनैवमेव । १३णर चैव विघठनापत्यासेम नवा । १४ फ-विषयेषु भावने । १५ ण-र-गुरुग्रहणं १६ अध्याय श्लो० १३७॥
For Private And Personal Use Only