________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Acharya Shri ka
अध्यायः ]
मनुस्मृतिः । न्तेन च किमनेन निगृहीतेन राष्ट्रापराधिना तदर्थमुच्यते तुल्यं राष्ट्र स्वाम्यादिति राज्यप्रकृतित्वेन तत्परिहर्तव्यं राष्ट्रं ततो दुर्बलान्केनचिदुपायेन वा योधयित्वा कण्टकशुद्धिं करिष्यामीति न सहसा प्रवर्तितव्यं । अतः सप्तमाध्यायोपदेशतोऽप्युत्कृष्यास्मिन्नवधाबुध्यते । स्वामी रानैव अमात्यो मन्त्रिपुरोहितः । सेनानी पुरं निवासनगरं राष्ट्रं जनपदाः कोशो रूप्यसुवर्णरूपकादिधनसंचयः हस्त्यश्वरथपादातं दण्डः धर्मदंडादिव सुत्दृत्समान- ५ कार्यः । यथोक्तं " मित्रं तस्मादनन्तरमिति" । एता राज्यस्य प्रकृतयः कारणमवयवा यथा घटस्य कापालिनि : स्वभाववचनो वा प्रकृतिशब्दः । एवं तदात्मकमेव राज्यं समस्तं क्षिप्रं । अस्यैव भेदो विस्तारो द्वासप्ततिस्तत्रापि योज्यो भेदः स उक्त एव ॥ २९४ ।।
सप्तानां प्रकृतीनां तु राज्यस्थासां यथाक्रमम् ॥
पूर्व पूर्व गुरुतरं जानीयाद्यसनं महत् ॥ २९५॥ १० मित्रव्यसनात्स्ववलव्यसनं गरीयः । स्वबलसंपन्नो हि शक्नोति मित्रमनुग्रहीतुं । एवं दण्डात् कोशः कोशनाशे हि दण्डोऽपि नश्यत्येव । एवं कोशराष्ट्रं । राष्टनाशे हि कुतः कोशोत्पत्तिः । पुनः राष्टाविनाशकार्य पुरं यत्ततो रक्षितव्यं । तत्र हि सर्वावयवसाधनादि संभवति । पुरादमात्यः प्रधानं प्रधानादमात्यनाशे हि सर्व बलं भज्यते । आत्मनाशे सर्वनाश इत्येत्प्रसिद्धेमेव तदुक्तं "आत्मा तु सर्वतो रक्ष्य" इति ॥ २९५ ॥ १५
सप्ताङ्गस्येह राज्यस्य विष्टब्धस्य त्रिदण्डवत् ॥
अन्योन्यगुणवैशेष्यान्न किंचिदतिरिच्यते ॥ २९६ ॥ काचित्प्रकृतिरधिकेत्यर्थः । एवं प्रकृतिनाशे सर्वनाशः तथा च दृष्टान्तः । विष्टब्धस्य त्रिदण्डवदित्यवष्टब्धस्यान्योन्यस्याधारभावेनैतदेवाह । अन्योन्यगुणवैशेष्यात् परस्परस्योपकार्योपकारकाभावेनैकैकस्य विनाशोत्पत्तैः भूमिबीजोदकसामग्र्यो इव अंकुरजनने तस्मात्सर्वेषां तुल्यताऽत्रोच्यते । अस्त्वेात्र गुरुलघुभावः । यत्तु न किंचिदतिरिच्यत इति तदनादरेण मित्रादिरक्षायां वर्तितव्यमित्येवंपरमेतत् । मित्रनाशेऽचिरेण राज्यनाशो यदा बलवतोपरोधो न तु तदानीमेवेत्यलं बललघीयस्तायाः ॥ २९६ ॥
तेषु तेषु तु कृत्येषु तत्तदङ्गं विशिष्यते ॥
येन यत्साध्यते कार्य तत्तस्मिन् श्रेष्ठमुच्यते ।। २९७ ॥ २५ नास्ति सद्वस्तु यद्राक्षो नोपयुज्यते । भवति हि तत्कार्य यन्निकृष्टेन साध्यते न
१ण-र-योन्यो । २ण-र-राष्ट्रस्यासां यथा क्रमः । ३ ण-र-पितृ । ४ फ-गृहायीत् । ५ ण-र-अमात्यः । ६ फ-श्र । ७ण-र-भावमस्थितां एतदेवा । ८ फ-विशोमेपछति। ९ फसामग्रेन कुंजर । १० फ-पूज्यताम् । ११ फ-स्त्ये। १२ -र-न चिरेण । १३ फ-आलंबनरूपीयस्त्वया । १४ फ-परा हि । १५ -र-प्राज्ञो ।
२०
For Private And Personal Use Only