SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिमाष्यसमलंकृता। [ नवमः आपद्गतोऽथवा वृद्धा गर्भिणी बाल एव वा ॥ परिभाषणामर्हन्ति तच शोध्यमिति स्थितिः ॥ २८३ ।। आपद्गतः पूर्वोक्तः । वृद्धादयो ये बहिामं निर्गन्तुमशक्ता गृह्यन्ते शोणितमपि कर्तुमित्याशङ्कयन्ते मेध्यमपि व्यपदेष्टं न पुनरेवं कर्तव्यं । पुनः करणे राजतो महान्प्रत्यवायो ५ भवति । क्रोधगर्भमीदृशवचनं परिभाषणं तच शोध्यमिति राज्ञ उपदेशः । यद्युत्स्रष्टारो न ज्ञायन्ते तथा च रथ्याचण्डालादिभिरपासनीया ॥ २८३ ॥ चिकित्सकानां सर्वेषां मिथ्याप्रचरतां दमः ॥ अमानुषेषु प्रथमो मानुषेषु तु मध्यमः ॥ २८४ ॥ चिकित्सका भिषजस्तेषां मिथ्याप्रचाराणामौषधदानमुभयथा संभवति । यदि १० वाऽविज्ञातशास्त्रप्रयोगतया शास्त्रे परिचितेऽपि वाऽनन्यरतयाऽर्थलिप्सयाऽमानुषेषु गवाश्व हस्त्यादिषु प्रथमः साहसशब्दोनुषक्तव्यः । एवं मानुषेषु तु मध्यम इति । तथा प्रचारेण यद्याश्वेव विपद्येत तदा महान्दण्डः कल्पनीयः ॥ २८४ ॥ संक्रमध्वजयष्टीनां प्रतिमानां च भेदकः ॥ प्रतिकुर्याच्च तत्सर्वं पञ्च दद्याच्छतानि च ॥ २८५॥ १५ येन संक्रामन्ति मार्गेणावतरन्ति जलोपस्पर्शादिना निमित्तेन शुभ्रं वासः संक्रमध्वज चिन्हं राजामात्यादीनां देवायतनेषु च यष्टिः । ईदृशे च । प्रतिमानामिति व्याख्यातं । प्रतिकुर्यात्समदधीताप्रत्यापत्तिं नयेत् ॥ २८५ ॥ अदूषितानां द्रव्याणां दूषणे भेदने तथा ॥ मणीनामपवेधे च दण्डः प्रथमसाहसः ॥ २८६ ॥ २० यानि स्वयमदुष्टानि द्रव्याणि लाभार्थी दूषयति तथा धान्यविक्रयी क्षेत्रे निर्दोष धान्यमुत्तमं तृणबुसर्योजयति कुंकुमादेश्च तेन कुंकुमादिना द्रव्यान्तरेणैकीकरणं मणयो मुक्तास्तेषां भेदनं द्विधाकरणं । अत्र वेधतिर्भेदने विद्यते । अनेकार्थत्वाद्धातूनां विधते रूपमेतत् । मणयो हीनमध्यमोत्कृष्टतमा भवन्ति । तत्र दण्डकल्पना कर्तव्या । मध्यमेषु मध्यम उत्तमेषूत्तमः ॥ २८६ ॥ समैहि विषमं यस्तु चरेद्वै मूल्यतोऽपि वा ॥ समामुयाइमं पूर्व नरो मध्यममेव वा ॥ २८७ ॥ येषां द्रव्याणां समत्वेन विनिमय उक्तो यथा “ तिला धान्येन तत्समा" इति । तत्र यदि विषमममाचरति व्यवहारार्थ तिलं दत्वा बहुधान्यं ब्रीह्यादि गृह्णीयादसति वा १ण-र-प्रत्यापत्तिं । २ण-र-साहसं । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy