________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्याय ]
मनुस्मृतिः।
मित्राणि तानि शत्रून्कुर्वते कृत्वा शत्रुभिः संयोजयन्ति । अरीणामुपजापकाः प्रोत्साहकास्तान् घातयेत् स्वतन्त्रप्रयोजनत्वान्नावश्यं घातनमित्युक्तम् ॥ २७५ ॥
सन्धि भित्त्वा तु ये चौर्य रात्रौ कुर्वन्ति तस्कराः॥ तेषां छिस्वा नृपौ हस्तौ तीक्ष्णे शूले निवेशयेत् ॥ २७६ ॥ अङ्गुलीग्रन्थिभेदस्य छेदयेत्प्रथमे ग्रहे ॥
द्वितीये हस्तचरणौ तृतीये वधमर्हति ।। २७७ ॥ अस्थि भिनत्तीति ग्रन्थिभेदः। भेदनं मोक्षो ग्रन्थैर्वस्त्रप्रान्तादौ ग्रन्थिः । यद्गा यव्यं गृहीतं तत्केनचिच्छलेन ग्रन्थिमवमोच्य ये निनीषन्ति ते ग्रन्थिभेदाः । तेषां प्रथमायां प्रवृत्तावकुलीनां च्छेदः । द्वितीयस्यां प्रवृत्तौ हस्तचरणयोस्तृतीयस्यां मारणम् ॥ २७७ ॥
अग्निदान्भक्तदांश्चैव तथा शस्त्रावकाशदान् ॥
संनिधातूंश्च मोषस्य हन्याञ्चौरमिवेश्वरः ॥ २७८ ॥ सीतापनोदनाद्यर्थ येऽग्निं ददति शस्त्रं कर्तरिकादि मोक्षस्य सन्निधातारः कर्तारः सर्वे चौरवत् ज्ञेयाः । शस्त्रावकाशदग्रहणं प्रागुक्तमप्युपसंहारार्थमुच्यते ॥ २७८॥ .
तडागभेदकं हन्यादप्सु शुद्धवधेन वो ॥
यद्वाऽपि प्रतिसंस्कुर्यादाप्यस्तूत्तमसाहसम् ॥ २७९ ॥ १५ तडागग्रहणमुपलक्षणार्थ । नधुदकहरणेऽप्ययं दोष इति केचित् । तदयुक्तं । महान्हि तडागभेदनेऽपराधः । स्वल्पो नदीभेदने । तडागस्य हि वप्रभेदनेनोदकेऽप्ययमेव विधिः ॥ २७९॥
कोष्ठागारायुधागारदेवतागारभेदकान् ॥ हस्त्यश्वरथहर्तृश्च हन्यादेवाविचारयन् ॥ २८०॥ यस्तु पूर्वनिविष्टस्य तडागस्योदकं हरेत् ॥ आगमं वाप्यपां भिद्यात्सं दाप्यः पूर्वसाहसम् ॥ २८१ ॥ समुत्सृजेद्राजमार्गे यस्त्वमेध्यमनापदि ॥
स द्वौ कार्षापणौ दद्यादमेध्यं चाशु शोधयेत् ॥ २८२ ।। राजमार्गे ग्रामनगरे रथ्यायाममेध्यं मूत्रपुरीषं समुत्सृजेदन्यतो वाऽऽनीय २५ चण्डालादिनिक्षिपेत् । अनापदि आपद्वेगेनात्यर्थमुक्तं भवति । चण्डालादेर्मूल्यं दत्वापासयेत्स्वयं वाऽन्यासंभवे ॥ २८२ ॥
१ण-र-शत्रूननुकुर्वन्ति । २ फ-च।
For Private And Personal Use Only