SearchBrowseAboutContactDonate
Page Preview
Page 830
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। ७८५ करिष्यामस्तव नान्यत्रस्था इत्युक्त्वा न कुर्वत उपेत्य नानाकारणनानाविधैरुपायैामिणान्मुष्णन्ति शिवमाधवादयः शिवमादित्यं जीवन्ति । मङ्गलादेशवृत्ता यान्त्युपदेशिका ज्योतिषिकादयः। अथवा एतां देवतां त्वदर्थेनाहं प्रीणयामि दुर्गा मार्तण्डं चेति तथाऽऽन्यानां धनमुपजीवन्ति । अथवा मङ्गलं तथाऽस्त्विति वादिनः । आदेशवृत्ताः सर्वस्य करवर्धने अभद्रामद्राप्रेक्षणकाः प्रशंसिपुरुषलक्षणाः ।। २५८ ॥ असम्यकारिणश्चैव महामात्राश्चिकित्सकाः ।। शिल्पोपचारयुक्ताश्च निपुणाः पण्ययोषितः ॥ २५९ ॥ महामात्रा मन्त्रिपुरोहितादयो राजनिकटिकास्ते चेदसम्यकारिणः। चिकित्सका वैद्याः । शिल्पोपचारयुक्ताः चित्रपत्रछेदरूपकारादयः । उपचार उपायनमनुपयुज्यमानस्वशिल्पकौशलं दर्शयित्वाऽनुष्ठाय धनं नयन्ति । एवं पण्ययोषितो निपुणाश्चापकारेणास- १० त्पीतिदर्शनेन असम्यकारिण इति सर्वत्रानुयुज्यते ॥ २५९ ॥ एवमादीन्विजानीयात्प्रकाशांल्लोककण्टकान् । निगूढचारिणश्चान्याननार्यानार्यलिङ्गिनः ॥ २६० ॥ एवमाद्या न शक्यन्ते धूर्तानां परद्रव्यापहाराणा प्रकारान्संख्यातुमित्याद्यग्रहणं तथा ह्यशक्यं कथयन्ति अवधारयन्तीमनुरागिणी तथा भृत्यो भृत्यवदात्मानं दर्शयित्वा १५ न यदि हिरण्यमृनुप्रकृतेर्न वार्थभृतस्त्वं ब्रह्मा त्वं बृहस्पतिरित्युक्त्वा मूर्खाद्यान्नयन्ति देहि प्रसादेन कतिपयैर्वाऽहोभिः प्रत्यर्पयामीति सिद्धे प्रयोजने तनुतरो भवति प्रियवाद्यप्रियवादि संपद्यते । निगूढचारणस्तुत्यकर्मकारिभिर्विधापूर्व ये तत्कर्म कृतवन्तः । अथवा संप्रत्येव तस्कर्म कार्यन्ते अन्तर्भावसिद्धयर्थ लब्धान्तरा आगत्य कथयिष्यन्ति ॥ २६ ॥ तान्विदित्वा सुचरितैर्गुदैस्तत्कर्मकारिभिः ॥ चारैश्चानेकसंस्थानः प्रोत्साद्य वशमानयेत् ॥ २६१ ॥ तथाद्यैरपि चारैस्तत्कर्मकारिभिरनेकसंस्थानैः ॥ २६१ ॥ तेषां दोषानभिख्याप्य स्वे स्वे कर्मणि तत्वतः ॥ कुर्वीत शासनं राजा सम्यक् सारापराधतः ॥२६२ ॥ न हि दण्डाहते शक्यः कर्तुं पापविनिग्रहः ॥ स्तेनानां पापबुद्धीनां निभृतं चरतां क्षितौ ॥ २६३ ।। सभा प्रपापूपशालावेशमद्यानविक्रयाः॥ चतुष्पथाश्चैत्यवृक्षाः समाजा प्रेक्षणानि च ।। २६४॥ १ण-र-यथा । १ ण-र-तद्धितः । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy