________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता।
[ नवमः
अशासंस्तस्करान्यस्तु बलिं गृह्णाति पार्थिवः॥ तस्य प्रक्षुभ्यते राष्ट्र स्वर्गाच परिहीयते ॥ २५४ ॥
शासनं यथाशास्त्रं वधादिदण्डमन्तरेण तस्कराणां निग्रहरक्षा न शक्यते । अतो वृत्ति गृहीत्वा यस्तस्करवधाज्जुगुप्सते तस्योभयो दोषः। इह राष्ट्रकृतोऽमुत्र स्वर्गपरिहानिः । ५ युक्ता च बलिपरिगृहीतस्य तन्निष्कृतिमकुर्वतो दोषवत्ता ॥ २५४ ॥
निर्भयं तु भवेद्यस्य राष्ट्र बाहुबलाश्रितम् ॥
तस्य तद्वर्धते नित्यं सिच्यमान इव द्रुमः ॥ २५५ ॥ प्रसिद्धमेवैतच्छुोके तस्करधर्मविशेषतयानूद्यते ॥ २५५ ॥ द्विविधांस्तस्करान्विद्यात्परद्रव्यापहारकान् । प्रकाशांश्चाप्रकाशांश्च चारचक्षुर्महीपतिः ॥ २५६ ॥
चाराः प्रच्छन्ना राष्ट्र राजकृत्यज्ञानिनस्ते चक्षुषी इव यस्य स चारचक्षुः । प्रकाशस्तस्कराणां नाति तस्करव्यवहारो यथा लोकेऽन्येषामटवीरात्रिचराणामाप्तस्तैः सामान्योपादानं तद्वन्निग्रहार्थ क्रियते ॥ २५६ ॥
प्रकाशवंचकास्तेषां नानापण्योपजीविनः ।। प्रच्छन्नवञ्चकास्त्वेते ये स्तेनाटविकादयः ॥ २५७ ।।
तत्र ये क्रयाथै मानतुलादिना मुष्णन्ति द्रव्याणामागमस्थाननिर्गमनापेक्षार्थ कुर्वन्ति ते प्रकाशका वणिजकाः। प्रच्छन्नास्तु ये रात्रौ मुष्णन्ति ते स्तेना आटविका विनने प्रदेशे वसन्ति । अपरे तु प्रसह्य हारिणो न केवलमेत एव किंत_मे चान्ये यानूर्व वक्ष्यामः ॥ २५७ ॥
उत्कोचकाचौपधिका वश्चकाः कितवास्तथा ॥ मङ्गलादेशवृत्ताश्च भद्राश्वेक्षणिकैः सह ॥ २५८ ॥
उत्कोचकार्येण कस्यचित्कार्येण कस्यचिद्राजामात्यादेः प्रवृत्ती ग्रहणातिकार्यसिद्धौ प्रवर्तते । औपधिकाः छद्मव्यवहारिणः । अन्यब्रुवन्त्यन्यदाचरन्ति । प्रत्यक्ष प्रीति
दर्शयित्वा हठोपकारे वर्तन्ते । विनाप्यर्थग्रहणेन निमित्तान्तरतः अन्यतोऽपरस्य कार्य२५ सिद्धिमवश्यं विज्ञाय मया तवैतक्रियत इति परं गृह्णन्ति भीषिकांप्रदर्शनं वा उपधावन
ग्रहणार्थे सदा देविन इत्यर्थः । पृथगर्थे वा पादवञ्चका विप्रलम्भकाः । इदं कार्यं वयमेव
१ण-र-दण्डानां । २ ण-र-बलि वृति । ३ ण-र-उभयोर्दोषः। ४ ज-र-हि। ५ ण-र-लोक। ६-र-न तस्करवधविधिशेषतया । ७ ण-र राजकृत्यवां ज्ञानिनः । ८ फ-प्राकाश । ९ फ-जवनिका । १.फ-गरनुहरति । ११ज-र-भीतिका ।
For Private And Personal Use Only