________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिमाष्यसमलंकृता ।
[ नवमः
वरुणायेदमिति मनसा ध्यायनासु दद्यादप्सु निक्षिपेत् । बामणाय वा विधाशीलसंपन्नाय दद्यात् ॥ २४४ ॥
ईशो दण्डस्य वरुणो राज्ञां दण्डधरो हि सः ॥ ईशः सर्वस्य जगतो ब्राह्मणो वेदपारगः ॥ २४५ ॥
पूर्वस्य प्रतिपत्तिविधेरर्थवादोऽयम् । महापातकिनं दण्डस्य वरुण ईष्टे । यतो राज्ञां स दण्डधरो नेता ईशितेति यावत् । एवं ब्राह्मणोऽपि तद्धनस्येशोऽनेन ग्राह्यः ॥२४५ ॥
यत्र वर्जयते राजा पापकृद्भयो धनागमम् ।। तत्र कॉले न जायन्ते मानवा दीर्घजीविनः ॥ २४६ ॥ निष्पद्यन्ते च सस्यानि यथोप्तानि विशां पृथक् ॥
बालाश्च न प्रमीयन्ते विकृतिर्न च जायते ॥ २४७ ॥
प्रसिद्धाविमावप्यर्थवादश्लोकौ । काले न जायन्त इति वर्तमानजन्म न विवक्षितं जाता जनिष्यमाणाश्च । विकृतिः करचरणाक्षिविहीनम् ॥ २४७ ॥
ब्राह्मणान्वाधर्मानं तु कामादवरवर्णजम् ॥
हन्याचित्रैर्वधोपायैरुद्वेजनकरैर्नृपः॥२४८॥ १५ अवरवर्णजः शूद्रः। बाधनं धनार्धाहरणं शरीरोपंपीडनं च। चित्रा विविधोपायाः गला. रोपणं रक्तछेदः अंगकल्पनं खड्गप्रहारकर्तृका इत्याद्याः । उद्वेजनकरैर्दीर्घकालपीडाकरैः२४८
यावानवध्यस्य वधे तावान्वध्यस्य मोक्षणे ॥
अधर्मो नृपतेदृष्टो धर्मस्तु विनियच्छतः ॥ २४९ ॥ ___अवध्यवधे यो दोषस्तत्तुल्यो वध्यमोक्षणे राज्ञोऽयुक्तस्य षड्भागहरस्य स्वकर्माकुर्वतः २० प्रत्यवायेन अवश्यमेव भवितव्यं । कुर्वतस्तु न कदाचिददृष्टसिद्धिः । यस्त्वयं
धर्मस्तु विनियच्छत इति एवमादिधर्मप्रवादः सर्वोऽसौ स्वकर्मानुष्ठानप्रशंसार्थोऽर्थवादः । राज्यनिग्राह्यसंस्कारार्थस्त्वयं वधोपदेशः । अतो यथाश्रुतिचित्रवधोपायैः कर्तव्यः । इष्टार्थेषु राज्यतन्त्रसिद्धयर्थवधश्रवणं यथा हि साधनश्च हन्यादित्युक्तं । तत्र दृष्टप्रयो
जनस्वादुपदेशस्य ने नियतो वधः । एवं च सत्युपायांतरेणापि बन्धनादिना नियच्छतो २५ न दोषः ॥ २४९॥
१य-र-ल-ण-नधादिषु । २ य-र-ल-ण-कुल। ३ ण-र-ईशानेन प्रायः । ४ य-र-णल-लोके च ।५ण-र-यथाप्तानि । ६ फ-विकृतं न; ण-र-नैव । ७ फ-कर्णाक्षिविहीनम् । ८ ज-मानास्तुजान् । ९ज-र-धनदारहरणं;ण-र-धनदानहरणं। १० फ-शिरच्छदोऽऽकल्पन। खड्गप्रहारकर्तिका इत्याद्याः। ११ ण-र-राज्ञा अप्रयुक्तेश्व; अप्रयुक्तेषु; अथ भागहरस्य धर्मानकुर्वतः-1 १२ज-र-प्रत्यबाधेनावश्यं भवितव्यं कुर्वतस्तु न कदाचिददृष्टसिद्धिः । १३ ण-र-चैत्रवधोपायैः । १४ फ-उपदेशेषु प्रवचनं यथादप्तं योधांच-। १५ ण-र-तनियतो वधः।
-
-
-
For Private And Personal Use Only