________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः
मनुस्मृतिः।
ज्ञातिसंबन्धिभिस्त्वेते त्यक्तव्याः कृतलक्षणाः ॥
निर्दया निर्नेमस्कारास्तन्मनोरनुशासनम् ॥ २३९ ॥ कृतलक्षणा इति निश्चिते कार्यकारणत्वे इत्यर्थः । व्याध्यादियोगेप्येषु दया न कर्तव्या । ज्येष्ठ्यादिगुणयोगेऽपि च नैते नमस्कार्याः प्रत्युत्थानादिभिः । एष एव वचनसामर्थ्याद्ध विज्ञेयः ॥ २३९ ॥
प्रायश्चित्तं तु कुर्वाणाः पूर्ववर्णा यथोदितम् ॥
नाङ्कथा राज्ञा ललाटे स्युर्दाप्यास्तूत्तमसाहसम् ॥ २४०॥ शूद्रादावन्ये पूर्ववर्णास्तेषां प्रायश्चित्तं कुर्वतामङ्कनं नास्ति दण्डस्तूत्तमसाइसं पणसहस्रं दाप्याः ॥ २४०॥
आगस्सु ब्राह्मणस्यैव कार्यो मध्यमसाहसः॥
विवास्यो वा भवेद्राष्ट्रात्सद्रव्यः सपरिच्छदः ॥ २४१ ॥ प्रायश्चित्तं तु कुर्वाणा इत्येतदत्र नापेक्षते । एतेषु ब्रह्महत्यादिप्वपराधिषु ब्राह्मणो मध्यमसाहसं दण्ड्यः । अकामत इत्युतरश्लोकादपकृष्यते । दण्डयित्वा प्रायश्चित्तं कारयितव्यः। सपरिच्छदः। गुणवतो ब्राह्मणस्यानुग्राह्यस्यैतत्। अकामं वाऽनिर्वास्यः॥२४१॥
इतरे कृतवन्तस्तु पापान्येतान्यकामतः ॥
सर्वस्वहारमर्हन्ति कामतस्तु प्रवासनम् ॥ २४२॥ इतरे क्षत्रियादयो वर्णा एतानि पापानि महापातकान्यकामतोऽनिच्छया कृतवन्तः सर्वस्वहरणाः कार्याः । केचित्प्रायश्चित्तमपि कुर्वतामेतद्दण्डं पूर्वेण वैकल्पिकमिच्छंति कामतस्तेषां वध उक्तः । शूद्रस्याकामतोऽङ्कनसर्वस्वहरणे कामतो वधः ॥ २४२॥
नाददीत नृपः साधुर्महापातकिनो धनम् ॥
आददानस्तु तल्लोभातेन दोषेणं लिप्यते ॥ २४३ ॥ ननु धनेन दैण्डनं राज्ञो वृत्तिरिति स्थापितम् । कथमिह तद्धनस्याग्रहणं उक्तम् राजनिधूर्तदण्डा इत्यत्रान्तरे ॥ २४३ ॥
अप्सु प्रवेश्य तं दण्डं वरुणायोपपादयेत् ॥
श्रुतवृत्तोपपन्ने वा ब्राह्मणे प्रतिपादयेत् ॥ २४४ ॥ १फ-तत्कार्यकरत्वमित्यर्थः । २ फ-ज्येष्ठादि । ३ फ-दोषे। ४ य-र-ण-ल-गुणवतो ब्राह्मणस्यानुप्राय स्यानतुं काम वा राष्ट्रानिर्वास्यः। ५ ण-र-उत्तमः । ६ य-र-ल-ज-तेन दोषेर्विकल्प्यते; य-विलिप्यते । ण-र-बन्धनं । ८ य-र-ल-ण-वृत्तिलिखितस्य । ९ण-र-न स्थापिनं । १०ण-रवचनस्य । ११ य-र-ल-ण-राजभिः कृतदण्डा; भिधृतदण्डा ।
For Private And Personal Use Only