________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८०
मेधातिथिमाष्यसमलंकृता ।
[ नवमः अमात्याः प्राडिवाको वा यत्कुर्युः कार्यमन्यथा ॥ तत्स्वयं नृपतिः कुर्यात्तान्सहस्रं च दण्डयेत् ॥ २३४ ॥
धनग्रहणसंबन्धेन पूर्व निःस्वीकरणं अर्थतस्तु निमित्तान्तरेण प्रज्ञादिनाऽमात्यो राजस्थानीयादिस्तं सहस्रं च दण्डयेत् ।गर्गशतदण्डनवत्समुदायेन वाक्यपरिसमाप्तिः।।२३४॥
ब्रह्महा च सुरापश्च स्तेयी च गुरुतल्पगः ॥ एते सर्वे पृथक् ज्ञेया महापातकिनो नराः ॥ २३५॥
सुरापो ब्राह्मण एव महापातकी । तस्करो ब्राह्मणः सुवर्णापहारी । न यः कश्चित् उक्तार्थकथनमुत्तरार्धम् ॥ २३५ ॥
चतुर्णामपि चैतेषां प्रायश्चित्तमकुर्वताम् ॥ शारीरं धनसंयुक्तं दण्डं धर्म्य प्रकल्पयेत् ॥ २३६ ॥
ननु च सुरापो ब्राह्मण एव पातकी । तस्य च शरीरसंयुक्तो दंडो नास्ति " न शारीरो ब्राह्मणो दण्ड " इति । तत्र चतुर्णामपीति कथं केचिदाहुः । पतितः संप्रयुक्तो गृह्यते पूर्वमनुपात्तोऽपि चतुःसंख्यासामर्थ्यात् । अन्ये च कर्तनं शरीरसंयुक्तमित्याहुः ।
तञ्च ब्राह्मणस्याप्यस्ति । अन्ये त्वपिशब्दात्पञ्चानामयं दण्ड इत्याहुः । चतुर्णामपि । १५ अपिशब्दात्पञ्चमस्यापि तत्संसर्गिणो ब्राह्मणस्य वधे पूर्वत्र शरीरदण्ड उक्त एव ।
स्त्रीबालब्राह्मणानांश्च हन्यादिति । अनेनान्तःशरीरयुक्तमङ्कनमेवोच्यते । धर्म्यमित्यपराधानुरूपेण गुरुतरलाघवं कार्यमित्यर्थः ॥ २३६ ॥
गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः ॥ स्तेये च श्वपदं कार्य ब्रह्महण्यशिराः पुमान् ॥ २३७ ॥ ललाटाङ्कनमप्रतिषेधविधौ " नाङ्कया राज्ञा ललाटेषु " इति तच्छ्रवणात् ॥ २३७॥
असंभोज्या ह्यसंयाज्या असंपाठ्याविवाहिनः ॥ चरेयुः पृथिवीं दीनाः सर्वधर्मबहिष्कृताः ॥ २३८ ॥
सर्वधर्मग्रहणादेवासंभोजनादीनां सिद्धे प्रतिषेधे दोषगुरुत्वख्यापनार्थमेषामुपादानम् । संभोग एकत्र असनं गीतादिश्रवणं च । संयोजनं तेषामेव योजनं तैः सह याजनं वा। २५ एवं संपाठोऽपि द्रष्टव्यः । असंपाठ्याविवाहिन इति । असंपाठ्याश्च अविवाहिनश्चेति
द्वन्द्वः । दीना इति । सत्यपि स्ववत्वे तत्संबन्धिनिषेधभिक्षादिभोजनेन परयाऽवज्ञया च वस्त्रखण्डादिवर्जनम् ॥ २३८ ॥
१फ-ण-र-ब्राह्मणसुवर्णापहारी । २ फ-शारीर । ३ ण-र-पत्तौ। ४ फ-रोकिनः शरीमुक्त-। ५ फ-पूर्व । ६ फ-अन्तरशरीरात्समाङ्करमेवोच्यते। य-र-ण-ल-अपराधानुत्तम्यै। ८ फ-विहिता; क्ष-अतिगर्हिता । ९ ण-र-स्वरत्वेन ।
For Private And Personal Use Only