SearchBrowseAboutContactDonate
Page Preview
Page 824
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। ७७९ दमः कर्मकरणेऽप्यसमा दरिद्रा एव गृह्यन्ते । महापात्रकिनां साम्यात्तच्छिष्यादिमिस्ताहनं । शिफा लता । विदलं वृक्षत्वक् ॥ २३० ॥ ये नियुक्तास्तु कार्येषु हन्युः कार्याणि कार्यिणाम् ॥ धनोष्मणा पच्यमानास्तानिःस्वान्कारयेनृपः ॥ २३१ ॥ ये कार्यिणामर्थिप्रत्यर्थिनां कार्येषु व्यवहारदर्शितादिषु नियुक्ता अधिकृता ५ राजस्थानीयप्रमृतयस्ते धनोष्मणा पच्यमाना अन्यस्माद्धनं गृहीत्वा कार्याणि नाशयेयुस्तान्निास्वान्कारयेत्सर्वस्वहरणं तेषां कार्य । सत्यानामभ्यासेन वर्तमानानां सत्यपि वक्ष्यमाणो दण्डान्तरविधावेष एव दण्डो न्याय्यः। येऽप्यन्ये सेनापतिप्रभृतयः कस्यचित्साहाग्यके नियुज्यन्ते ततश्चार्थ गृहीत्वा शयन्ति तेऽप्येवमेव दण्ड्याः । अन्ये तु 'ये ऽनियुक्ता' इत्यकारप्रश्लेषं पठन्ति । ये राजवल्लेख्याबलातिशयाद्वाऽन्यस्य साहाय्यं कुर्वन्ति १. कार्यनाशनार्थ द्वितीयस्य तेषामयं दण्डः । धनोष्मणेत्यविवक्षितं । अनियुक्ता इत्येतदेव प्रधानम् ॥ २३१॥ कूटशासनकर्तश्च प्रकृतीनां च दूषकान् ॥ स्त्रीबालब्राह्मणांश्च हन्याविट्सविनस्तथा ॥ २३२॥ कुटशासनस्य कर्तारो यन्नैव राज्ञादिष्टं तद्राजकृतमिति वदन्ति । शासनं १५ राजादेशः । एतस्य गृहे न भोक्तव्यमस्य चायं प्रसाद आज्ञात इयं वा स्थिती राज्ञा कृतेति पत्रकं राजाधिकृतलेखकलिखितमस्ति शासनं राजादेशसंबाधशासनं तत्कूटं कुर्वन्ति पालयन्ति । प्रकृतीनां क्रुद्धलब्धानां दूषका भेदकाः। स्त्रीबालयोर्ब्राह्मणयोरपि हन्तारः। द्विट्सेविनो राजशत्रुसेविनः प्रच्छन्नं गतागतिकान् ॥ २३२ ॥ * तीरितं चानुशिष्टं च यत्र कचन यद्भवेत् । कृतं तदर्मतो विद्यान्न तद्भूयो निवर्तयेत् ॥ २३३॥ यत्र वचन राजाधिकारणे व्यवहारपदं तीरितं पारतीरकर्मसमाप्तौ निश्चितमसौ यत्र प्रयुञ्जीतेति न केवलं वाचा सत्यैरुक्तं यावदनुशब्दं दण्डप्रणयनं कृतं तद्राजा कृतमेव विद्यान्न पुनर्निवर्तयेदन्तरेण द्विगुणं दण्डं यथाह "द्विगुणं दण्डमास्थाय तत्कार्य पुनरुद्धरेत्" इति । धनग्रहणसंबंन्धेन पूर्व निःस्वीकरणं। अयं तु निमित्तान्तरेणाज्ञानादिना ॥ २३३ ॥ २९ १ग-र-राक्षा। * तीरितं चानुशिष्टं च यो मन्येत विकर्मणा। द्विगुणं दण्डमास्थायतत्काय पुनरुवरेत्॥१॥ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy