________________
Shri Mahavir Jain Aradhana Kendra
ܐ
७७८
१५
www.kobatirth.org
मेधातिथिभाष्यसमलंकृतां ।
अयमुक्तो विभागो वः पुत्राणां च क्रियाविधिः ॥ क्रमशः क्षेत्रजादीनां द्यूतधर्मे निबोधत ॥ २२० ॥ द्यूतं समाहयं चैव राजा राष्ट्रान्निवारयेत् ॥ राजान्तकरणावेतौ द्वौ दोषौ पृथिवीक्षिताम् ॥ २२१ ॥ प्रकाशमेतत्ताकर्यं यद्देवनसमाहृयौ ॥ तयोर्नित्यं प्रतीघाते नृपतिर्यत्नवान्भवेत् ॥ २९२ ॥ अमाणिभिर्यत्क्रियते तल्लोके द्यूतमुच्यते ॥ प्राणिभिः क्रियते यस्तु स विज्ञेयः समाह्वयः ।। २२३ ॥ द्यूतं समाह्वयं चैव यः कुर्यात्कारयेत वा ॥ तान्सर्वान्घातयेद्राजा शूद्रांश्च द्विजलिङ्गिनः || २२४ | कितवान्कुशीलवान्क्रूरान्पाषण्डस्थांश्च मानवान् || विकर्मस्थान् शौण्डिकांश्च क्षिमं निर्वासयेत्पुरात् ॥ २२५ ॥ एते राष्ट्रे वर्तमाना राज्ञः प्रच्छन्नतस्कराः ॥ विकर्मक्रिया नित्यं बाधन्ते भद्रिकाः प्रजाः ।। १२६ ॥ द्यूतमेतत्पुराकल्पे दृष्टं वैरकरं महत् ॥ तस्माद्यूतं न सेवेत हास्यार्थमपि बुद्धिमान् ॥ प्रच्छन्नं वा प्रकाशं वा तनिषेवेत यो नरः ॥ तस्य दण्डविकल्पः स्याद्यथेष्टं नृपतेस्तथा ॥ २२८ ॥
२२७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
विविधः कल्पो विकल्पः । सम एव राज्ञेोच्यते ' द्यूतधर्मे निबोधत ' इति तत २० आरभ्य द्वित्राः श्लोका विधायकाः । सर्वोऽप्यर्थवादः ॥ २२८ ॥ क्षत्रविट्शूद्रयोनिस्तु दण्डं दातुमशक्नुवन् ॥
आनृण्यं कर्मणा गच्छेद्विमो दद्याच्छनैः शनैः ।। १२९ ॥
क्षत्रियादयो निर्धना न संबन्धेनावसादयितव्याः । किंतर्हि ? कर्मणा यद्यस्योचितं कर्म राजोपयोगि तेन दण्डधनं संशोधयितव्याः । ब्राह्मणस्तु कुटुंबानामविरोधेन शनै२९ दयो बन्धतानकर्मणी तस्य निषिध्येते । धनिकविषयः प्रागुक्तः श्लोकः । दण्डविषयो
1
ऽयमपौनरुक्त्यम् ॥ २२९ ॥
स्त्रीबालोन्मत्तवृद्धानां दरिद्राणां च रोगिणाम् ॥ शिफाविद लरज्ज्वाद्यैर्विदध्यान्नृपतिर्दमम् ॥ २३० ॥
१ ण-ह-विधिः । २ ण-र-रोचते । ३ ण-र-नृपतिध्रुवम् ।
[ नवमः
For Private And Personal Use Only