________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्यायः ]
मनुस्मृतिः ।
1
यदुक्तं " न्यूनाधिकविभक्तानां धर्म्यः पितृकृतः स्मृत " इति तेम्योऽस्मिन्विषये प्रतिषेधः । सहोत्थानं सर्व एव धनमर्जयन्तीत्यर्थः । कश्चित्कृष्यादिना कश्चित्प्रतिग्रहेण कश्चित्सेवया कश्चिद्यथाहृतं परिरक्षति यथोपयोगमसन्निहितेषु विनियुक्ते तत्सर्वमेकीकृत्य समं विभजनीयं । न स्नेहादिना कस्मैचित्पित्राऽधिकं देयम् ॥ २१५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
ऊर्ध्व विभागाज्जातस्तु पित्र्यमेव हरेद्धनम् ॥ संसृष्टास्तेन वा ये स्युर्विभजेत स तैः सह ॥ २१६ ॥
विभागोत्तरकालं पित्रा यद्विभागद्वयं गृहीतं " द्वावंशौ प्रतिपद्येत" | इति तदेव सत्या पितुरिच्छायां ग्रहीतव्यं । पितुरूर्ध्वं वा न तत्र भ्रातृभिर्वाच्यं किमित्ययं द्वावंशौ गृह्णातीति । अथ च नास्ति पितुरिच्छा तदा समं च स्वसमोऽस्य भाग उद्धर्तव्यः । पितुरूर्ध्व संसृष्टास्तेषामेव स पैतृकोंऽशस्तदुत्थं दद्यादपरेषां स्वांशं “ जातस्य च मृतस्य च " इति । १० जातस्य संसृष्टिन एव दद्युः । पितुरूर्ध्वं तदीयमंशं च तं एवमेव विभक्ताः सह इत्यनयानुबुद्ध्या " भगिन्या आ प्रसवान्नैव विभागोऽस्ति " इति वसिष्ठेन दर्शितम् ॥ २१६ ॥
अनपत्यस्य पुत्रस्य माता दायमवाप्नुयात् ॥ मातर्यपि च वृत्तायां पितुर्माता हरेद्धनम् ॥ २९७ ॥
व्याख्यातोऽयं श्लोकः ॥ २१७॥
ऋणे धने च सर्वस्मिन्प्रविभक्ते यथाविधि ॥ पश्चादृश्येत यत्किचित्तत्सर्वं समतां नयेत् ॥ २९८ ॥ अविज्ञानान्नयूनमधिकं वा विभक्तं परतो ज्ञातं समांशकी कर्तव्यं । किंच विभागोत्तरकालं लब्धे नास्ति ज्येष्ठस्योद्धार इति ॥ २९८ ॥
वस्त्रं पत्रमलंकारं कृतान्नमुदकं स्त्रियः ॥ योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते ।। २१९ ॥
१ ण-र एवं वाहनं ।
९८
७७७
For Private And Personal Use Only
वस्त्रपत्रालङ्कारकृतान्नोदकानामेकत्वं विवक्षितं । पत्रं वाहनं मन्त्रीशकटादि । अलङ्कारोऽङ्गुलीयकादि । वस्त्रं सममूल्यं न तु महार्घ । उदकं कूपवाप्यादि । स्त्रियो दास्य योगक्षेमं यतो योगे क्षेमो भवति मन्त्रिपुरोहितामात्यवृद्धावास्तुचारादिभ्यस्ततो रक्षा भवति । स्मृत्यन्तरे च पठ्यते ' वास्तुनि विभागो न विद्यते' । प्रचारं यत्र गावश्चरन्ति २१ प्रक्षेत्रेत्याह तेन यत्पैतृकेनोक्तं न ह्यत्र धर्मातिक्रमः कश्चिदस्तीति तदनुपपन्नं दर्शयति । अदृष्टासु हि ते प्रतिषेधास्तदतिक्रमादधर्मो न स्यात् ॥ २१९ ॥
१५