________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
( नवमः
सनामयः । ये च संसृष्टा इति चशब्दो भगिनी समुच्चिनोति त्वियमाशङ्का कर्तव्या । सोदर्या गह्लीयुर्ये च भ्रातरः संसृष्टा इति तथा सत्यसोदाणामपि संसृष्टानां भागः प्रसज्येत । सन्त्येव सोदर्या असंसृष्टाः संसृष्टाश्च । सोदर्या यत्र सन्ति तत्रोभयोरपि विभागेन
विभागं गृह्णीयुः । न चेदं विरुध्येत " अन्योदर्यस्तु संसृष्टी नान्योदर्यो धनं हरेत् । असंसृष्टोऽपि वादद्यात्सोदयों नान्यमात्रिकः" । १० अस्यायमर्थः । सापत्नो भ्राता सत्यपि संसृष्टित्वेन गृह्णाति । यदा . सोदयोऽसंसृष्टोऽपि विद्यते सोदर्याणां मध्यायेन संसृष्टः स एव नान्यः सत्यपि सोदर्यत्वे । तदुक्तं " संसृष्टिनस्तु संसृष्टी सोदर्यस्य तु सोदैर " इति । यदा तु सोदरा नैव सन्ति तदा यैरेव सापत्नैः संसृष्टस्त एव गृह्णीयुर्न वितरे । सोदर्यविभक्तानां सह
वसतां महानिकटमावसत्यपि सान्निध्यं विशेषकार्यसामान्योत्थविभक्तानामपि विज्ञायत १५ इत्याहुः । तेन विभक्तानामप्यन्यतरप्रमेयसोदर्य एव गृह्णीयान्नास्य भागः परिलुप्यते ।
न चैतच्चोदनीयं नैवास्य तदानीं भाग उत्थितः परलोको वा चिन्त्यते यत उक्तं । " समुत्पन्ने वाच्यः स्वामीति " | " अनीशास्ते हि जीवतोः" इति ॥ २११॥
यो ज्येष्ठो विनिकुर्वीत लोभाद्रातॄन्यवीयसः ॥
सोऽज्येष्ठः स्यादभागच नियंतव्यश्च राजभिः ॥ २१३ ॥ तत्र पितुरूज़ समनन्तरमेव पुत्राणां स्वाम्यं दर्शयति। विनिकारो राजपूनादिष्ववज्ञापरे धनेन वंचनं अज्येष्ठो बन्धुवत्पूज्य इत्युक्तं । न सर्वेण सर्वे ज्येष्ठवृत्तिनिषेधोऽभागकत्वं च ज्येष्ठांशनिहत्वं नियन्तव्यमविशेषोपदेशात् । वाग्दण्डधिग्दण्डाभ्यां धनं चार्थानुरूपेऽपराधे ॥ २१३॥
सर्व एव विकर्मस्था नाहन्ति भ्रातरो धनम ॥ २५ न चादस्वा कनिष्ठेभ्यो ज्येष्ठ कुर्वीत यौतकम् ।। २१४ ॥
विकर्मस्थाः प्रतिषिद्धाचरणाः । कुटुंबार्थे चानुतिष्ठमानानां तेषामन्येषां भ्रातृणा संबन्ध्युपविष्टं स्थापयेद्यत्ते वक्ष्यन्ते कुतस्तद्वर्धनमिति तदा मूलं दर्शयिष्यामीति तादृशवृद्धिसहितमपि सर्वेषामपि दापयेत् । यदि तु तस्मिन्नेव काले भ्रातृणां दर्शयेदिदमधिकं दृश्यते तद्यथांशं गृह्णीताहमपि स्वतस्तत्पृथक्कृत्य वृद्धिं नेष्यामीति तदा नास्ति तेषां भागस्तस्यैव तद्यौतकम् ॥ २१४ ॥
भ्रातणामविभक्तानां यधुत्थानं भवेत्सह ॥
न पुत्रभागं विषमं पिता दद्यात्कथंचन ॥ २१५ ॥ १ या०३० स्मृ• व्य० १३९ । २ या ३० स्मृ. व्य. १३८ । ३ णर-पज ।
For Private And Personal Use Only