________________
Shri Mahavir Jain Aradhana Kendra
لفية
१०
२०
www.kobatirth.org
२५
मेधातिथिभाष्यसमलंकृता ।
[ नवमः
वचनं । ईषदाधिक्ये तु सर्वेषां समांशकल्पना । अपित्र्येऽपि हेतुवचनादनपत्यधनस्याप्येष एव विधिः ॥ २०९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
विद्याधनं तु यद्यस्य तत्तस्यैव धनं भवेत् ॥
मैत्र्यमौद्वाहिकं चैव माधुपर्किकमेव च ॥ २०६ ॥
1
विद्याया अध्यापनादिना शिल्पकौशलेन वा तथा मित्राद्रर्जितमौद्वाहिकं सान्तानिकतया लब्धं चैव माधुपर्किकमात्र्त्विज्येन । यद्यप्येतदपि विद्याधनं भवति तथापि जायमानेन निमित्तेनोपादीयमानत्वाद्भेदेन व्यपदिश्यते । श्वशुरगृहलब्धमौद्वाहिकमपरे उद्वाहनिमित्तेन यतस्तल्लभ्यते ॥ २०६ ॥
ये भ्रातरः सह वसन्ति विद्यमान पितृधनाश्च कृप्यादिना व्यवहरन्ति तेषां यद्येको न व्यवहरेत्तस्येयं निर्भाज्यता पठ्यते । स निर्भाज्यः स्वकादंशादिति । भागान्नेतव्योऽपसारयितव्यः । स्वकादंशाद्यावधिकं तदीयाद्धनाद्वयवहारेणोत्पन्नं तत्तस्य न दातव्यं न तु मूलस्य पैतृकस्य निषेधः । तत्रापि न सर्वेण सर्वे निर्माज्यं किंचिदन्योपजीवनं क्लेशफलमात्मनो १५ गृहीत्वा शिष्टमस्मै दातव्यम् । अथवा निर्भाज्यः पृथक्कार्यः सह वस्तुं । न चेयं कदाचि - दुत्तरकालशक्तिसाधारण्येन घनेनार्जितत्वात्समांशता । तत्र भागकल्पना नारदेन दर्शिता । तत्र वचनेनोद्गतस्य भूयान्भागो गृह्यतेऽनुक्तस्य स्वल्प इति ॥ २०७ ॥
भ्रातॄणां यस्तु नेहेत धनं शक्तः स्वकर्मणा ॥
स निर्भायः स्वकादंशात्किंचिद्दत्वोपजीवनम् ॥ २०७ ॥
अनुपमन्पितृद्रव्यं श्रमेण यदुपार्जितम् ।।
स्वयमीहितलब्धं तन्नाकामो दातुमईति ॥ २०८ ॥
विद्यानिमित्तस्य स्वयमर्जितस्यादानमुक्तं । अनेन व्यतिरिक्तस्य कृष्यादिलब्धस्यादातव्यतोच्यते । ननु चायमेव श्लोको न वक्तव्यः । स्वयमीहितेन स्वयं चेष्टया यल्लब्धं तन्नाकामो दातुमर्हतीति । किं विद्याधनादिश्लोकेन उच्यते । मन्त्रे विवाहादौ न सर्वस्य स्वयमीहे। पपत्तिरिति भेदेन व्यपदेशः ॥ २०८ ॥
पैतृकं तु पिता द्रव्यमनवासं यदाप्नुयात् ॥
न तत्पुत्रैर्भजेत्सार्धमकामः स्वयमर्जितम् ॥ २०९ ॥ ग्रहणादन्यदर्थयन्पित्रा स्वयमर्जितं तदाकामो न विभजनीयोऽधिकारप्राप्तैरपि पुत्रैः कः पुनर्जीवति पितरि पुत्राणां विभागकाल उच्यते । यदा तावत्स्वयं पिता पुत्रान्विभजते तदोक्तं । (नारदस्मृ. १३ -२) “मातुर्निवृत्ते रजसि” इति “जीवति चेच्छतीति”
१ ण-र-यदा ।
For Private And Personal Use Only