________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
सर्वेषामपि तु न्याय्यं दातुं शक्तया मनीषिणा ॥ ग्रासाच्छादनमत्यन्तं पतितो ह्यददद्भवेत् ॥ २०२ ॥ यद्यर्थिता तु दारैः स्यालीबादीनां कथंचन ।।
तेषामुत्पन्नतन्तूनामपत्यं दायमर्हति ॥ २०३॥ अर्थिता संप्रयोगेच्छारतिनिमित्तं तस्यां सत्यां विवहेत् । तत्रोत्पन्नसंतानानामपत्यं ५ पुत्रो दुहिता वा दायं रिक्थविभागमर्हति । दुहितुर्यावान्भागः प्रागुक्तः । वान्तरेतास्तु यः क्लीबस्तस्य भवत्येव मैथुनेच्छा । कुतः पुनस्तस्य जंतूत्पत्तिः । उक्तं च " तस्य यस्तल्पजः न प्रमीतस्य क्लीबस्य व्याधितस्य " इति । रागप्रयुक्तता वा तेन श्लोकेन विवाहस्य दर्शिता । धर्मप्रयुक्तत्वे ह्यनधिकृतानां कर्मसु कुतो विवाह उपनेयता च । जात्यन्धपशूनां वातरेतसश्च स्वकीयस्य श (!) दर्शिता । उन्मत्तादयस्त्वमुनेयाः १० कुतस्तेषां विवाहः । आदिग्रहणं चोक्तविषये चरितार्थ । यदि हि आदिग्रहणासामर्थ्यात्सर्व एव गृोरन्पतितोऽपि गृह्येत तस्य सर्व एव गृह्येरन्पतितोऽपि स्मृतिविरोधान्नेष्टं अथवा कृताध्ययनानां 'कृतविवाहानामुन्मत्तादिरूपे' समुपजाते विधिरेष विज्ञेयः । __ननु च कृतविवाहानां 'यद्यर्थिता तु दारैरिति' नोपपद्यते। नैतदेवं कृतविवाहानां उन्मत्तादिरूपेण समुपजाते विधिरयं विज्ञेयः । ननु कृतविवाहानां जायार्थितायाः संभवात् पूर्वैस्तु १५ धर्येऽपि विवाहेऽस्य प्रयोजनं दृष्टं । ततश्च क्लीबस्य स्मार्तेष्वधिकारात्तदर्थो विवाहोऽसत्यामप्यर्थितायां युक्त एव । श्रौतेषु तु जातत्रपुस्याधानात्क्लीबस्य नाधिकारः । यस्य च प्रयोजकत्वं युक्तं तदर्शयितव्यम् ॥ २०३ ॥
___ यत्किचित्पितरि प्रेते धनं ज्येष्ठोऽधिगच्छति ॥
भागो यवीयसां तत्र यदि विद्यानुपालितः ॥२०४॥ पितृक्रमागतान्मित्राद्रानामात्यपुरोहितादेव क्षेत्राद्वा कयाचिद्युक्त्याऽधिकोत्पत्ति जनयेत्तत्सर्वेषां साधारणं नैव मन्तव्यं । मयैतद्बुद्धया पित्रा प्रागनुपार्जिता मयैतल्लब्धं ममैवेतदिति विद्यानुपालिन इति वचनाद्विद्याजीविनां शिल्पिकारुकप्रभृतीनामेष विधिवैद्यनटगायनादीनाम् ॥ २०४॥
अविद्यानां तु सर्वेषामीहातश्चेद्धनं भवेत् ॥
समस्तत्र विभागः स्यादपिच्य इति धारणा ॥२०५॥ अविद्या कृषिवाणिज्याराजोपसेवादि । तत्र ईषन्यूनाधिकभावो न गणयितव्यः । तत्रापि यदि केनचिदपि बर्जितं तदाऽस्त्येव विभागता । ज्येष्ठस्य तु ज्येष्ठांशनिषेधार्थ
१ण-निमित्तांतरस्या; ण-र-निमित्तान्तरस्यासत्यां । २ एवं मूले । ३ फ-विरोधेनेष्टं । ४ ज-रछायार्थितायां संभवात् । ५ र-नः । ६ फ-महतश्चेद्धनं ।
२०
For Private And Personal Use Only