SearchBrowseAboutContactDonate
Page Preview
Page 817
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७७२ मेधातिथिमाष्यसमलंकृता। [ नवमः सर्वेषामप्यभावे तु ब्राह्मणा रिक्थभागिनः॥ विद्याः शुचयो दान्तास्तथा धर्मो न हीयते ॥ १८८ ॥ अहार्य ब्राह्मणद्रव्यं राज्ञा नित्यमिति स्थितिः ॥ इतरेषां तु वर्णानां सर्वाभावे हरेन्नृपः ॥ १८९ ॥ संस्थितस्यानपत्यस्य सगोत्रात्पुत्रमाहरेत् । तत्र यहक्थजातं स्यात्तत्तस्मिन्प्रतिपादयेत् ॥ १९० ।। द्वौ तु यो विवदेयाता द्वाभ्यां जातौ स्त्रिया धने ॥ तयोर्यद्यस्य पित्र्यं स्यात्तत्स गृह्णीत नेतरः॥ १९१॥ जनन्यां संस्थितायां तु समं सर्वे सहोदराः॥ भजेरन्मातृकं रिक्थं भगिन्यश्च सनाभयः ॥ १९२ ॥ यास्तासां स्युर्दुहितरस्तासामपि यथार्हतः॥ मातामह्या धनात्किंचित्प्रदेयं प्रीतिपूर्वकम् ॥ १९३ ॥ अध्यग्न्यध्यावाहनिकं दत्वं च प्रीतिकर्मणि ॥ भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम् ॥ १९४ ॥ अन्वाधेयं च यद्दत्तं पत्या प्रीतेन चैव यत् ॥ पत्यौ जीवति वृत्तायाः प्रजायास्तद्धनं भवेत् ॥ १९५ ॥ ब्राह्मदैवार्षगान्धर्वप्राजापत्येषु यद्वसु ॥ अप्रजायामतीतायां भर्तुरेव तदिष्यते ॥ १९६ ॥ यत्त्वस्याः स्यादनं दत्तं विवाहेष्वासुरादिषु ॥ अप्रजायामतीतायां मातापित्रोस्तदिष्यते ॥ १९७ ॥ स्त्रियास्तु यद्भवेद्वित्तं पित्रा दत्तं कथंचन ॥ ब्राह्मणी तद्धरेत्कन्या तदपत्यस्य वा भवेत् ॥ १९८ ॥ न निर्यारं स्त्रियः कुयुः कुटुंबाबहुमध्यगात् ॥ स्वकादपि च वित्तादि स्वस्य भर्तुरनाज्ञया ॥ १९९ ॥ पत्यौ जीवति यः स्त्रीभिरलङ्कारो धृतो भवेत् ।। न तं भजेरन्दायादा भजमानाः पतन्ति ते ॥२०॥ अनंशौ क्लीवपतितौ जात्यन्धबाधिरौ तथा ॥ उन्मत्तजडमूकाश्च ये च केचिनिरिन्द्रियाः॥२०१॥ १फ-ये। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy