________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७१
अध्यायः]
मनुस्मृतिः। य एतेऽभिहिताः पुत्राः प्रसङ्गादन्यबीजजाः॥
यस्य ते बीजतो जातास्तस्य ते नेतरस्य तु ॥ १८१ ॥ पूर्वोक्तस्याभावे विधिप्रतिषेधोऽयमिति व्याचक्षते । य एते औरसाभावे प्रतिनिधयः कर्तव्यतया उक्तास्ते न कर्तव्याः । यतस्तेऽन्यबीजजातास्तस्यैव ते पुत्रा नेतरस्य । येन क्रियन्ते तस्य ते न भवन्तीत्यर्थः । अतश्च पूर्वेण विधिरनेन प्रतिषेध इति विकल्पः। ५ स च व्यवस्थितो रिक्थग्रहणे । कानीनसहोढपुनर्भवगूढोत्पन्ना न रिक्थभाजः । दत्तकादयस्तु रिक्थभाजः । असत्यौरसे कानीनादयश्च सत्यप्यौरसे न पितृधनहराः । ग्रासाच्छादनमाजः केवलं । सत्यसति चौरसे । यत उक्तं (अग्रे श्लो. २०२) "सर्वेषामपि च न्याय्यं दातुं शक्या मनीषिणः। ग्रासाच्छादनमत्यन्तं पतितो ह्यददद्भवेत् ॥
सर्वेषामपि क्लीबादीनां च प्रकृतत्वेन दर्शितमिति । अत्यन्तं यावज्जीवमित्यर्थः । १० शरीरधारणार्थत्वाद्रासाच्छादनस्य भृत्यादेस्तदुपयोगिनः परिचारकस्यापि वेतनदानं विज्ञेयं । न ह्यन्धादेः परिचारकमन्तरेण जीवनसंभवः । येषां दारकरणं मतं तेषां सभार्याणां भरणं दातव्यं शक्नोति धनानुरूपेण भोजनवस्त्रादि देयं पतित इत्यर्थवादः ॥ १८१ ॥
भातृणामेकजातानामेकश्चेत्पुत्रवान्भवेत् ॥ सर्वांस्तांस्तेन पुत्रेण पुत्रिणो मनुरब्रवीत् ॥ १८२ ॥ सर्वासामेकपत्नीनामेका चेत्पुत्रिणी भवेत् ॥ सर्वास्तास्तेन पुत्रेण पाह पुत्रवतीर्मनुः ॥ १८३ ॥ श्रेयसः श्रेयसो लाभे पापीयान्रिक्थमर्हति ॥ बहवश्चेत्तु सदृशाः सर्वे रिक्थस्य भागिनः॥ १८४॥ न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः ॥ पिता हरेदपुत्रस्य रिक्थं भ्रातर एव च ॥ १८५ ॥ *त्रयाणामुदकं कार्य त्रिषु पिण्डः प्रवर्तते ॥
चतुर्थः संपदातैषां पञ्चमो नोपपद्यते ॥ १८६ ॥ x अनन्तरः सपिण्डायस्तस्य तस्य धनं भवेत् ।।
अत ऊर्च सकुल्यः स्यादाचार्यः शिष्य एव वा ॥ १८७॥ २५ * असुतास्तु पितुः पत्म्यः समानांशाः प्रकीर्तिताः ।
पितामह्यश्च ताः सर्वा मातृकल्पाः प्रकीर्तिताः॥१॥ x हरेरनृत्विजो वापि न्यायवृत्ताश्च याः स्त्रियः॥१॥
For Private And Personal Use Only