SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। शवेनोक्तं " न शूद्रपुत्रोऽर्थमागी । यदेवास्य पिता दद्यात्स एव तस्य भागो गोमिथुनं त्वपरं द्युः "। विभागकाले भ्रातर इति वाक्यशेषः । अन्ये त्वनूढायाः शूद्रायाः पुत्रस्येमं विधिमिच्छन्ति । न पत्र विवाहलिङ्गं किंचिदस्तीति । जातिविशेषवचनः शूद्राशब्दोऽतो यदेवास्य पिता दद्यात् अतो यदस्य प्रजीवनं पित्रा दत्तं तदेव दातव्यं । अथ तेन का विभागकल्पना कृता यावज्जीवं जीवनाय तदा तदेवास्य धनं न भ्रातृभिः किंचिदातव्यं । ५ यथा गौतमः शुद्रापुत्रप्रकरण ऐवाह । “ अपरिग्रहीतास्वपि शुश्रूषा चेल्लभते वृत्तिमूल. मन्तेवासिविधिना" इति । तेषां मते क्षत्रियवैश्ययोरनूढयोर्माता रिक्थहराः प्राप्नुवन्ति । तत्र च कियानंश इति न ज्ञायते । यावानंश ऊढयोरिति चेत्तत्रापि नोढाग्रहणं न लिङ्गं वचनं वास्ति । " एक एवौरसः पुत्र " इति धर्मपत्नीप्वौरसो न चानूढयोर्जातानामौरसलक्षणमस्ति । उक्तं च ' अनियुक्तासुतश्चैवेत्यादि । अभ्रातृजायाविषयमेतत् । तत्र किल १० नियोगे विहतेऽनियुक्तासुत इति प्रतिषेधेऽपि तद्विषया बुद्धिरुपजायते । अत्राप्यस्ति तर्हि जातमात्रेष्विति । तस्मात्परस्त्रीषु नियोगेन विनाऽनियुक्तासुताः सर्वेषां च तेषां प्रजीवनमुक्तम् ॥ १५ ॥ समवर्णासु ये जाताः सर्वे पुत्रा द्विजन्मनाम् ॥ ___उद्धारं ज्यायसे दत्वा भजेरनितरे समम् ॥ १५६ ॥ १५ वाशब्दो द्वितीयं विकल्पमन्तरेणानुपपद्यमानः प्रकृतमपेक्ष्य निराकासो भवति । समवर्णास्वसमवर्णासु वा शूद्रस्यैव सर्वधनहरत्वनिषेधाव्दिजातिविषयमेव विज्ञायते । तेन ब्राह्मणस्यासति ब्राह्मणीपुत्रे क्षत्रियादिनाताः सर्वधनहरा भवन्तीत्युक्तं भवति । एवं क्षत्रियवैिश्यापुत्रः न त्वयमर्थः उद्धारं ज्यायसे दत्वा सर्वेऽसवर्णा जाताः समं सवर्णापुत्रैर्भजेरन् प्रागुक्तैकांशापचयविरोधात् । यद्यप्युक्तं निर्गुषेणु सवर्णापुत्रेषु गुण- २० वत्स्वितरेषु युक्तमेव साम्यं । तथाप्युक्तं सर्वणापुत्रो अन्यायवृत्तो न लभते केषामिति तदेतदसत् । जातेरत्यन्तमान्यत्वात् " उत्पन्नो वाऽर्थस्वाम्यमित्याचार्या " इति तेनेयमत्र व्याख्या । असत्सु संवर्णास्वसवर्णास्वपि जातास्तेऽपि जायांशमुद्धारेण सवर्णाद्विभजेरन् ॥ १५६॥ शूद्रस्य तु सवर्णैव नान्या भार्या विधीयते ॥ तस्यां जाताः समांशाः स्युर्यदि पुत्रशतं भवेत् ॥ १५७ ॥ प्रतिलोमाविवाहः शद्रस्य नेष्यते । उक्तानुवादोऽयं । तस्यां जाताः समांशाः स्युरिति । पञ्चमस्य जात्यन्तरस्यामावादेवमुक्तं सवर्णैव तस्य भार्या नान्याऽस्तीति ॥१७॥ १ण-र-+वदतः । २ ण-र-शूद्र । ३ अ० २८ सू० ३७ । ४ ण-र-न लिङ्गवचनं नास्ति। ५र-दिति । ६ फ-र-अनियुक्तासु ताः सर्वेषाम् । ७ण-र-शब्दा । ८ ण-र-पुत्र न खयमस्यार्थः। १ ण-र-वृत्तौ । १० फ-सर्ववर्णेष्वपि ये यातास्तेऽपि । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy