________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७१४
मेधातिथिमाष्यसमलंकृता।
[ नवमः
लभ्यते । किंभूमिभागकल्पनया । तथा चोक्तं " लभते तद्वृत्तिमूलमंतेवासिविधिनेति" । सत्यं । पितृधननिमित्तं तु तस्य प्रजीवनं कल्पयितव्यं । भागकाले च यदि न कल्पेत तदा द्विजातयो भ्रातरः कदाचिदसद्वृत्तयो निमित्तान्तरतो वा दानविक्रयादिनाऽपहरेयुः। उच्छिद्येत तदाऽस्य जीवनं । विकल्पिते तु तदीयामनुज्ञामन्तरेण लभतेऽन्यत्र नियुक्तम् ॥ १५३ ॥
यद्यपि स्यात्तु सत्पुत्रोऽप्यसत्पुत्रोऽपि वा भवेत् ॥ नाधिकं दशमाद्दद्याच्छूद्रापुत्राय धर्मतः ॥ १५४ ॥
सत्पुत्रो विद्यमानपुत्रः ब्राह्मणीपुत्र एव वा । विद्यमानो विवक्षितो न द्विजातिपुत्रमात्रमतश्चासति ब्राह्मणपुत्रे क्षत्रियवैश्ययोः सतोरप्यष्टमांशं लभते । केवले च वैश्यपुत्रे
तृतीयं । अन्ये त्वविशेषेण द्विजातिपुत्राभावे पुत्रपदेनोक्त इत्याहुः । अस्मिन्पक्षे सपिण्डगामि १० दशमांशशेषधनं । इयं तु द्रष्ट्रव्यवस्था बहुवचनं योगक्षेमे तदा दशमांशं हरेच्छौद्रः ।
अथ कतिपयजनजीवनपर्याप्तं तदा शूद्रपुत्रस्यैव । क्षत्रियादीनां समानमावनातीयास्त्रीजातानां स्मृत्यन्तरे विधिदर्शितः । “ क्षत्रजास्त्रिोकभागा विड्नाः स्युव्येकभागिनः"। क्षत्रियाजातास्वजातीयविजातीयासु शूद्रपर्यन्तासु वर्णक्रमेण ज्यादिभागहराः । तदा तेन स्वधनं क्षत्रियस्य शूद्राः षष्ठमंशं लभन्ते । विशश्च तृतीयम् ।
अन्ये त्वस्य श्लोकस्य सामर्थ्यमाहुः । शूद्रपुत्राय यदा ददाति तदाऽनेन धनं सङ्कलय्य दशोऽशो दातव्यो न तदधिकः । सत्यपि स्वातन्त्र्ये । यथा वक्ष्यति “ यदेवास्य पिता दद्यात् " इति । अस्मिन्पक्षे स पुत्रो दद्यादिति समानाधिकरणे पदे उपपन्नतरे इतरथा यस्य सदसत्पुत्रः पिता स दद्यादिति संबन्धो दुश्लिष्टः स्यात् । सपुत्रपदेनास्य पुत्रादे
रभिधानं दद्यादिति जीवतः पुत्रसपिंडादेः । ततश्च यदि क्षत्रियवैश्यापुत्रौ न स्तः केवलौ २० ब्राह्मणशद्रौ तदा न शूद्रस्य दशम एवांशः किं तत्यल्पं नाधिकतरं धनं लभते । यत्र
दश गावः सन्ति तत्र चतस्रो ब्राह्मणस्यैका शूद्रस्य पञ्च क्षत्रियवैश्ययोः । यदा तौ न स्तः तदा पञ्चगावस्तयैव कल्पनया ब्राह्मणशूद्राभ्यां विभजनीयाः । यदि सर्वा ब्राह्मण आदद्यान्न चांशहरः स्यान्न चतुरंशहरस्तस्माच्चतुरोंऽशान्हरेदिति चतुर्षु भ्रातृषु सत्सु कल्पना । शूद्रस्यापि दशमींऽशहरत्वं चतुर्वेव । द्वयोस्त्रिषु चतुर्वृभयो गाधिक्यम्॥१५४॥
ब्राह्मणक्षत्रियविशा शूद्रापुत्रो न रिक्थभाक् ॥ यदेवास्य पिता दद्यात्तदेवास्य धनं भवेत् ॥ १५५ ॥
न रिक्थभाक् द्विजातीनां शूद्रापुत्रः। किं सदा नेत्याह । यदेवास्य पिता दद्यात्तत् अस्य पित्रा दशमांशकल्पना कृता तदेव तत्तस्य तदधिकं पैत्रिकं नान्यल्लभते । तत्रापि १ गौतमसू. २८१३७ । २ ख-यद्यपुत्रोऽपि । ३ याज्ञवल्क्य स्मृ. व्य. १२५ । ४ फ-मोऽ ।
For Private And Personal Use Only