________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७५६
मेधातिथिभाष्यसमलंकृता ।
[ नवमः
सिद्धे पुनर्वचनमनर्थकम्। अखिलरिक्थग्रहणानुवादृश्यानर्थक एव । तदयुक्तं । “ अपुत्रस्य पितुर्हरेत् ” इत्ययमेवार्थोऽवगीतश्चिरन्तनपाठः । पितृशब्दश्च जनके प्रसिद्धतरो न मातामहे । अतश्च पुत्रिकाया भर्ता न तु तदन्यभार्यापुत्रपुत्रिका च पुत्रवती । तदाऽनेनैव पुत्रेण जातेन पिता पितामहश्वोभावपि त्रवन्तौ वेदितव्यौ । यदा तु बीजीतरा जातः पुत्रस्तदा पुत्रिकापुत्रः समानजातीयायामूढायां जातोऽपि नैव वीजिनो रिक्थं हरेनापि पिण्डं दद्यात् । अन्यो हि जन्यजनकभावोऽन्यश्चापत्यापत्यवत्संबन्धः । अजनका अपि क्षेत्रजादिभिरपत्यवन्तो जनकाश्च विक्रीतापविद्धादिर्पितैरो नीवाजीगर्तादयः पुत्रवन्तस्तथा चौरसलक्षणः स्वक्षेत्र इति स्वग्रहणं क्षेत्रं च पुत्रिकापितुरेव । भर्ता हि तस्य चानुविधेयवर इति मातृकुले स्वामी । तस्मादेवं तद्वक्तव्यम् । यस्मिन्पक्षे विद्यमानान्यपुत्रपुत्रिका१० भर्ता पुत्रिकापुत्रश्चाखिलद्रव्यहारी तस्मिन्पक्षे “ अञ्जसा अयं प्रयुङ्केति " रूढाया अि प्राथमिकात्संप्रयोगादनपगतमेवानुषज्येत । प्रायेण ह्यत्र शास्त्रे कन्याशब्दः पुमांसं प्रयोगमाचष्टे । अर्थसंस्कारहीनेति । तदपि न । यतः प्रथममेव वचनमेवं स्मरणाभिप्रायेण तत्र संभविप्रमाणान्तरवशालक्षणया हिता इत्यत्र प्रतीयते । यथोक्तं
।
“पाणिग्रहणका मन्त्राः कन्यास्वेव प्रतिष्ठिताः । नाकन्यासु क्वचिन्नृणां लुप्तधर्मक्रिया हि ताः||” १५ इति । अत्र धर्मलोपवचन लिङ्गात्पुरुषोपभुक्ताऽकन्येत्युच्यते । तद्विपर्ययेणानुपभुक्ता कन्येति सर्वत्रैव मुख्यार्थमनुरुध्य क्रियमाणा धर्मा लक्ष्यन्ते । ते च न सर्वे । किं तर्हि । यावतां प्रमाणमस्ति । तथा हि कानीन इति पितुः स्वतासंस्काराभावश्च प्रतीयते । केवले हि संस्काराभावे चोढास्वैरिणीपुत्राः कानीनाः केवलायां च पितृस्वतालक्षणायां पुत्रिकापुत्रोऽपि कानीन इति व्यपदिश्यते । तथोक्ते स्वदारतस्तु नियमातिक्रमः प्राप्नोतीति । न ह्यस्यायमर्थः २० स्वदारेभ्योऽन्या गन्तव्येति । परस्त्रियं च कामयते न चापरां दारांस्तथा सत्यनेनैव गतत्वात्परदारप्रतिषेधो ऽनर्थकः स्यात्कितर्हि स्वदारेषु रतिर्धारयितव्या रतिभावनयाssभ्यासात्प्रीत्यतिशयोत्पत्तेः । स्त्रियं च न कामयते न चापरान्दारांस्तथा सति धर्मेभ्यो न हीयत इत्यनुवादोऽयम् । अथवा स्वदारनिरतोऽपि पर्ववर्जन मेनां व्रजेयुरसौ सुषुप्त्यैवमपत्यशेष एव परदाराप्रतिषेधोऽपि नास्ति । अनूढत्वात्केनचिद्दारव्यपदेशाभावात् । २५ किं पुनरपुत्रयुक्तमा विवाह्येति अष्टौ हि विवाहास्ते च स्वीकारभेदेन ब्राह्मादिव्यपदेशभेदं प्रतिपद्यन्ते । न चास्यास्वकरणं भर्तुरस्ति । पितुरेव स्वत्वानतिवृत्तेः । अभ्रातृकायां च विवाहप्रतिषेधे पुत्रिकामविवाह्यां दर्शयति । यथा नाभ्रातृकामुपयच्छेत तोकं ह्यस्य तद्भवतीति प्राकरणिकश्चायं प्रतिषेधस्तदप्रतिषेधेषूपलभ्यमान मूलत्वात्प्रकरणाधीनोऽपि
१ ण-र-तो । २ण-र-रौ । ३ अ. ८ श्लो, २२७ । ४फ - ताः कन्यास्वपितॄणां हि या हिता । ५ फ+अक्षराणि ?
For Private And Personal Use Only