________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः।
७५५
ददौ स दश धर्माय कश्यपाय त्रयोदश ॥
सोमाय राज्ञे सत्कृत्य प्रीतात्मा सप्तविंशतिम् ॥ १२९ ॥ सत्येति तदत्र विधीयते । दशेत्यादिलिङ्गादनेकपुत्रिकाकरणमपीच्छन्ति ॥ १२९ ॥
यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा ॥
तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत् ॥ १३०॥ " यदपत्यं भवेदस्यां तन्मम स्यात् " इत्युक्तं । अपत्यं च ऋक्थभाक् । अतः पितरि मृते पुत्रिकाया अनुत्पन्नपुत्राया धनहरत्वमप्राप्तं विधीयतेऽर्थवादेन । तस्यामात्मनि पुत्रनिमित्तं तिष्ठन्त्यामेव धनं न पुत्रोत्पत्तिस्तदीयाय युज्यते । अथवा तस्यामात्मभूतायां पितृरूपायामिति पुत्रेण दुहिता समेति सामान्यवर्चनो दुहितृशब्दः प्रकरणात्पुत्रिकाविषयो विज्ञेयः ॥ १३० ॥
मातुस्तु यौतकं यत्स्यात्कुमारीभाग एव सः ।।
दौहित्र एव च हरेदपुत्रस्याखिलं धनम् ॥ १३१॥ यौतकशब्दः पृथग्भावेन च स्त्रीधने । तत्र हि तस्या एव केवलायाः स्वाम्यम् । अन्ये तु सौदायकमेव तत्संबन्धस्त्रीधनं । तत्र हि तस्याः स्वातन्त्र्यम् ।
" सौदायिकं धनं प्राप्य स्त्रीणां स्वातन्त्र्यमिप्यते" । न भक्तभूषाधुपयोगिनः १५ आन्वाहिकाद्भर्तृदत्ताद्धनादुपयुक्तशेषमेव । युक्त्या स्वीकृतं यौतकमाहुः । कुमारीभाग एव कुमारीग्रहणादूंढा नास्ति । एवकारस्य च प्रसिद्धानुवादकत्वात्प्रकरणबाधकत्वमतश्च पुत्रिकाकुमारीविषयमपि यौतकम् । एवं च गौतमः। “ स्त्रीधनं तदपत्यानाम् " इत्युक्त्वाऽऽह " दुहितृणामप्रत्तानामप्रतिष्ठितानां चेति” । तत्राप्रतिष्ठिता या उढा अनपत्यानिधाना भर्तृगृहे याभिः प्रतिष्ठा न लब्धा । दौहित्र एव च हरेदपुत्रस्यानौरसपुत्रस्या- २० खिलं धनं हरेत् । सति त्वौरसे यावानंशस्तं वक्ष्यति । अत्रापि पुत्रिकापुत्र एव दौहित्रो न सर्वत्र पूर्ववत्प्रकरणत्यागस्य यौतकविषयत्व एव प्रमाणसंभवात् ॥ १३१ ॥
दौहित्रो ह्यखिलं रिक्थमपुत्रस्य पितुर्हरेत् ॥
स एव दद्याही पिण्डौ पित्रे मातामहाय च ॥ १३२ ॥ अपुत्रमातामहप्रमातामहाय पूर्वेणैव पौत्रिकेयदौहित्रस्याखिलं रिक्थहरत्वमुक्त. २५ मतोऽयं श्लोकस्तदनुवादेन पिण्डदानविधानार्थ इति कैश्चिव्याख्यातं । हरेद्यदीति च ते पठन्ति यस्मिन्पक्षे सर्व हरेत्तस्मिन्नेव पक्षे दद्यादातुः " समस्तत्र विभागः स्यात् " इति पक्षस्तदा दद्यादन्यथा “ यो यत आददीत स तस्मै दद्यात्" इत्यनेनैव पिण्डदानेन
१ ण-र-+ अपि । २ फ-दूनोऽस्ति । ' दनूढा स्त्री ' इत्येवं तु युक्तः पाठः । ३ ण-र-एवकारस्य च एवं प्रसिद्धानु। ४.अ. २८ सू. २२ । ५ण-र-तः ।
For Private And Personal Use Only