________________
Shri Mahavir Jain Aradhana Kendra
७५४
www. kobatirth.org
मेधातिथिभाष्यसमलंकृता
[ नवमः
षोडशो वृषभो वृषभसंबन्धाद्गावो लभ्यन्ते । यथास्य गोर्द्वितीये नार्थ इति अन्ये शेषा गा हरेरन्स्वमातृतः यथैवैषां माता गरीयसी कनीयसीमाहरेत् । अथवा ज्यैष्ठिनेयस्यायमुद्धारोऽधिक उच्यते । पूर्वस्तु स्थित एव । नात्रानडुत्प्रश्लेषः । शेषाः कनीयांसः स्वमातृतो हरेरन् । स्वामातृत इति विविच्यते । लोकद्वयस्यार्थवादत्वान्न विवेके यत्नः । उपक्रममात्रमेतत् । सिद्धान्तस्त्वयमुच्यते ॥ १२४ ॥
२५
सदृशस्त्रीषु जातानां पुत्राणामविशेषतः ॥ न मातृतो ज्यैष्ठयमस्ति जन्मतो ज्यैष्ठयमुच्यते ॥ १२५ ॥
सदृशः समानजातीयः ॥ १२५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
जन्मज्येष्ठेन चाह्वानं सुब्रह्मण्यास्वपि स्मृतम् ॥ यमयोश्चैव गर्भेषु जन्मतो ज्येष्ठता स्मृता ॥ १२६ ॥
अर्थवादोऽयं जन्मज्येष्ठतामभ्युपगमयति । सुब्रह्मण्या नाम मंत्रो ज्योतिष्टोमे छन्दोगैः प्रयुज्यत इन्द्राह्यनाय सुब्रह्मण्यो इन्द्र आगच्छेत्यादिप्रयोगे बहुत्वाद्बहुवचनं तत्रेदमुच्यते । प्रथमपुत्रेण पितरं व्यपदिश्य हूयते । देवदत्तस्य पिता यजते जन्मनो ज्यैष्ठ्यं मुख्यम् । अन्यत्र तु मातृविवाहसंबन्धाद्गौणं । यमयोर्गर्भ एककालनिषिक्तयोरपि १५ जन्मतो ज्यैष्ठयम् ॥ १२६ ॥
1
* अपुत्रोऽनेन विधिना सुतां कुर्वीत पुत्रिकाम् ||
यदपत्यं भवेदस्यां तन्मम स्यात्स्वधाकरं ।। १२७ ॥
यदपत्यमस्यां जायेत तन्मे मह्यं स्वधाकर मौर्ध्वदेहिकस्य श्राद्धादिपुत्र कार्यलक्षणार्थ ः स्वधाशब्दो न त्वयमेवोच्चार्यः । तथा च गौतमः । पितोत्सृजेत्पुत्रिकामन२० पत्योग्निप्रजापतिं चेष्ट्वास्मदर्थमपत्यमिति संवादाद्यभिसंबन्धमात्रादियोगेन विनाऽपि भवति पुत्रिका । ननु संवादाभावेन यद्यप्यभिसंबन्धे हृदयात्कृतमुच्यते सुतवचनेन यावन्न ज्ञापितस्तावज्जामाता विप्रतिपद्येत कुर्वीत पुत्रिकामेष तस्या व्यपदेशः ॥ १२७ ॥ अनेन तु विधानेन पुरा चक्रेऽथ पुत्रिकाः ॥
विवृद्धयर्थं स्ववंशस्य स्वयं दक्षः प्रजापतिः ।। १२८ ॥
प्रजोत्पादनविधिज्ञः प्रजापतिर्दक्षः स एवोदाहियते । अर्थवादोऽयं परकृतिर्नाम ॥ १२८ ॥
१ ण - र गरीयसी माहरेत् । २ ण-र-ज्येष्टता स्मृता ।
* अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलंकृतां ॥
अस्यां यो जायते पुत्रः स मे पुत्रो भवेदिति ॥ १ ॥
For Private And Personal Use Only