________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
७५३
विभागः स्यात् । न चोद्धारं न चैवाधिकं हरेज्येष्ठ इति । नापि यत्किचिदेव देयमिति । समः स्यात्केनोत्पादकेन पितृव्यकेण कनीयसा अनियुक्तासुतस्य त्वभागार्हतैव वक्ष्यते । इदं च लिङ्ग भ्रातरि सहिते सत्यपि भ्रातृशब्दे भातपुत्रेणाप्यसति भ्रातरि सह विमागः कर्तव्यः ॥ १२० ॥
उपसर्जनं प्रधानस्य धर्मतो नोपपद्यते ॥
पिता प्रधानं प्रजने तस्माद्धर्मेण तं भजेत् ॥ १२१॥ उपसर्जनमप्रधानं क्षेत्रं क्षेत्रजस्य प्रधानस्यौरसस्य तुल्य इत्येतद्वाश्रित्य तद्धर्मतः शास्त्रतो न युज्यते । औरसः किल पितृवज्ज्येष्ठांशं कृत्स्नं लभते । अयं तु क्षेत्रजोप्रधानं तस्माद्धर्मेण तं भजेत् । धर्मः पूर्वोक्ता भागकल्पना । ननु चायमपि ज्येष्ठः पुत्रो भवति किमित्यौरसवन्न लमतेऽत आह पिता प्रधानं प्रजने । पिता जनकोऽत्राभि- १० प्रेतः । स प्रधानमपत्योत्पादने । अयं चाप्रधानः कनीयसा जनितः । उपसर्जनप्रधानस्य सममित्येवाढत्य श्लोको गम्यते । अर्थवादोऽयं पूर्वस्य ज्येष्ठांशनिषेधस्यार्थवादत्वाच्च प्रधानोपसर्जनशब्दयोर्यत्किचिदालम्बनमाश्रित्य व्याख्या कर्तव्या । अन्ये पठन्ति " तस्माद्धर्मेण तं त्यजेत् " इति तद्युक्तं सर्वत्र समभागस्योक्तत्वात् । अर्थवादत्वाचास्य न विकल्पाशङ्का कार्या ॥ १२१ ॥
पुत्रः कनिष्ठो ज्येष्ठायां कनिष्ठाया च पूर्वजः ।
कथं तत्र विभागः स्यादिति चेत्संशयो भवेत् ॥ १२२ ॥ ज्येष्ठा प्रथमोढा । पश्चादूढा कनिष्ठा । तयोर्जातानां किं मातुरुद्वाहक्रमेण ज्यैष्ठ्यं स्यात्स्वजन्मक्रमणेति संशयमुपन्यस्योत्तरत्र निर्णेप्यते संप्रतिपत्तुम् ॥ १२२ ॥
एकं वृषभमुद्धारं संहरेत स पूर्वजः॥
ततोऽपरेऽज्येष्ठषास्तदूनानां स्वमातृतः ॥ १२३ ॥ पूर्वस्यां जातः पूर्वजः । कनीयान् वृषभस्योक्तो भागवान् । ततो वृषादन्ये ये वृषभा अज्येष्ठास्ते बहूनामेकशः कृत्वा देयाः । अतश्च ज्येष्ठिने यस्यैतावदुक्तमधिकं यच्छ्रेष्ठो वृषो गुणमात्रेणाधिक्यं न संख्यया तदूनानां तस्मात्पूर्वजादूनानाम् । कियतामित्याह । स्वमातृतः पुनर्मुख्यत्वोढत्वात्तेनात्र मातृज्यैष्ठयमाश्रितं भवति न जन्मतः ॥१२३॥ २५
ज्येष्ठस्तु जातोऽज्येष्ठायां हरेन्दृषभषोडशाः ॥
ततः स्वमातृतः शेषा भजेरनिति धारणा ॥ १२४ ॥ उद्धारान्तरं वैकल्पिकमेषामुच्यते । अज्येष्ठायां ज्येष्ठो जातः पंचदश गा हरेत् । १ -र-पितृव्येन । २ ण-र-तां । ३ ज-र-पितृपुत्रेगापि । ४ ण-र-ल । ५ र-नो।
For Private And Personal Use Only