SearchBrowseAboutContactDonate
Page Preview
Page 797
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७५२ मेधातिथिभाष्यसमलंकृता । [ नवमः १० परिमितधनदानमस्ति । तस्य द्वादशशतं दक्षिणेतिवत् केवलमाच्छाद्यालंकृतां विवाहयेत् । सौदायिकं वाऽस्या दद्यादिति श्रूयते । अलङ्कारत्वं सुवर्णमणिमुक्ताप्रवालादिरनेकधा भिन्नामति । तत्र न ज्ञायते कियदातव्यं धनं कीदृशो वाऽलङ्कार इत्यतश्च परिमाणार्थ मेवेदं युक्तं स्वादंशाच्चतुर्भागमिति । न चास्मिन्नर्थे शास्त्रविरोधो युक्तिविरोधो वा । ५ स्मृत्यन्तराण्येवमेव पक्षमुपोद्दलयन्ति । [या. व. स्मृ. व्य. १२४ ] "असंस्कृतास्तु संस्कार्या भ्रातृभिःपूर्वसंस्कृतैःभिगिन्यश्च निजादशाहत्वांऽशं तु तुरीयकम् ॥इति। तथा " आ संस्काराद्धरेद्भागं परतो विभृयात्पतिः” इति । अस्यायमर्थः । यत्र स्वल्पं धनमस्ति भ्रातुर्भगिन्याश्च न चतुर्भागे कन्याया भरणं भवति तत्र समभागं कन्या हरेदा संस्कारात् । परतस्तु स्मृत्यन्तराच्चतुर्भागं गृह्णीयात्स्वल्पमपि । कथं तर्हि भरणमात्रं कुर्यादत उक्तं " परतो बिभूयात्पतिः" इति । भ्रातृग्रहणं सोदर्यार्थ व्याचक्षते। कोऽभिप्रायः । भ्रातृशब्दो निरुपपदसोदर्य एव मुख्यया वृत्त्या वर्तते । पृथक्वचनं च लिङ्गम् । यस्यास्तु हि सोदयों नास्ति तस्या अयं दायः सौदायिकस्य प्राप्नोति । वैमात्रेयो । दास्यतीति चेन्नासति वचनान्तरे ददात्ययं । भ्रातृशब्दा एकात्ममातृकाश्च गृह्यन्ते । पैतृष्वस्त्रेयादिषु तूपचाराद्वर्तत इति युक्तं । एवमेकशब्दस्यानेकार्थत्वं नाभ्युपगतं भवति १५ स्मृत्यन्तरसमाचारश्चेति श्रेयान् । तत्र हि पठ्यते " यच्छिष्टं पितृदायेभ्यः प्रदानिकम् " इति । नात्र भगिनीशब्दो भ्रातृशब्दो वा श्रूयते । यत इयमाशङ्का स्यात् । यत्तु पृथगिति तदेकैकस्यैव समूहभागः सर्वाभ्य इत्येवमपि युज्यते । यदप्युच्यते अददतां प्रत्यवायान्न तु हठाद्दाप्यन्ते । यत उच्यते पतिताः स्युरदित्सव इति । यो हि यत्र यावत्यंशे स्वामी स हरेदित्युच्यते । न पुनरनेनास्मै दातव्यमिति । यथा वोच्यते भ्राता भ्रात्रे २० दद्यादिति चोच्यते न पुनरस्वामिभ्यः ॥ ११८ ॥ अजाविकं सैकशर्फ न जातु विषमं भजेत् ॥ अजाविकं तु विषमं ज्येष्ठस्यैव विधीयते ॥ ११९ ॥ एकशफमश्वाश्वतरगर्दभादयः विभागकाले समसंख्यया यद्विभक्तुमजाविकं न शक्यते ज्येष्ठस्यैव स्यान्न तदन्यद्रव्यांशपातेन समतां नयेद्विक्रीतं वा ततस्तन्मूल्यं दाप२५ येत् । अजाविकमिति पशुद्वन्द्वांवधविकवद्भावः ॥ ११९ ॥ यवीयाओष्ठभार्यायां पुत्रमुत्पादयेद्यदि ॥ समस्तत्र विभागः स्यादिति धर्मो व्यवस्थितः ॥ १२० ॥ ज्येष्ठस्य नियोगधर्मेण पितृवत्सोदरेऽतिदेशे प्राप्ते तन्निवृत्त्यर्थमुच्यते । समस्तत्र १ एतर्थमेव नारदीये अ० १३ श्लो० २७ । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy