SearchBrowseAboutContactDonate
Page Preview
Page 796
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। " दशैव दशतो वरान्” इति बहुवचनं पठन्ति । दशवरानाददीत अन्यस्तद्विशिष्टान्स्मरति " दशतःपशूनामेकशफद्विपदानाम् " इति ॥ ११४ ॥ उद्धारो न दशस्वस्ति संपन्नानां स्वकर्मसु ।। यत्किचिदेव देयं तु ज्यायसे मानवर्धनम् ॥ ११५॥ दशसु पशुषु यः पूर्वत्रोद्धार उक्तः स नास्ति । ये भ्रातरः स्वकर्मसु श्रुताध्ययनादिषु ५ संपन्ना विशेषवंतो दशस्विति चोपलक्षणं व्याख्यानयन्ति । दशसु यत्र श्लोक उद्धार उक्तः स सर्व एव नास्ति । कर्मसंबन्धात् । किंतु तैरपि यत्किचिदेवाधिकमुपानीवीघमानवर्धनं पूजाकरं ज्येष्ठाय देयम् ॥ ११५ ॥ एवं समुद्धतोद्धारे समानंशान्प्रकल्पयेत् ॥ ___उद्धारेनुद्धते त्वेषामियं स्यादंशकल्पना ॥ ११६ ॥ समुद्धते पृथक्कृत उद्धारेऽधिके भागेऽवशिष्टे धने समानंशाप्रकल्पयेत् । अनुद्धृते वक्ष्यमाणा भागकल्पना ॥ ११६ ॥ एकाधिकं हरेज्येष्ठः पुत्रोऽध्यर्धं ततोऽनुजः॥ अंशमंशं यवीयांस इति धर्मो व्यवस्थितः ॥११७ ॥ एकेनांशेनाधिकं स्वांशं हरेत्स्वीकुर्यात् द्वावंशौ प्रतिपद्येतेत्यर्थः । ततोऽनुजस्तद- १५ नन्तरमध्यर्धमर्धद्वितीयं यवीयांसस्तस्मादग्जिाताः सर्वे सममंशं नाधिकं किंचिन्नाल्पमित्यर्थः ॥ ११७ ॥ स्वेभ्योऽशेभ्यस्तु कन्याभ्यः प्रदार्धातरः पृथक् ॥ स्वात्स्वादंशाच्चतुर्भागं पतिताः स्युरदित्सवः ॥ ११८ ॥ कन्याशब्दः प्रायोऽनूढासु प्रयुज्यते । कानीनपुत्रः स्मृत्यन्तरे चोपात्तानामिति २० पठ्यते । अतोऽनूढायामयं भाग उच्यते । स्वाभ्यः प्रजाभ्य इत्यपेक्षया स्वाभ्यो भ्रातरः कन्याभ्यश्चतुर्भागमंशं दद्युः स्वादशात् । यत्र बव्ह्यः कन्याः सन्ति तत्र समानजातीयभ्रात्रपेक्षया चतुर्थीशे कल्पना कर्तव्या । तथा चायमर्थः । त्रीनंशान्पुत्र आददीत चतुर्थ कन्येति । यदपि कैश्चिदुक्तं महानुपकारः पितृकरणं कन्यानामदत्तानां येन जीवति पितरि तदिच्छया मूल्येनापि धनेन संस्क्रियन्ते मृते त्वंशहरा इति तत्पुत्रेऽपि तुल्यवाचनिके चार्थे २५ केयं नोदना अथाभिप्रायसमाचार उद्वाहमात्रप्रयोजनं दानमित्याचारो दुर्बलः स्मृतेरिति । न वैकान्तिकः अनैकान्तिकत्वे च स्मृतितोऽयं नियमो युक्तः । यदपीदं केनचिदुक्तमुद्रोहमात्रप्रयोजनं देयं न चातुर्थो भागो यथाश्रुतमिति च । इदं वाच्यो नोद्वाहे १ण-र-समर्थ एव । २ ख-मुपपानविधि । ३ ण-र-केयंतो नोदना । ४ फ-उद्धार । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy