________________
Shri Mahavir Jain Aradhana Kendra
७५०
मेधातिथिभाष्यसमलंकृता ।
[ नवमः
पर्वादिनियमादन्यत्र । यच्च " अन्ये कृतयुगे धर्मा " इति तत्प्रथम एव व्याख्यातं । न हि युगभेदेन धर्मव्यवस्थाहेतुदेशनियमोऽपि प्राचीनप्रवणादिव्यतिरेकेन मध्यदेशः पूर्व देशकृतो नैवास्तीत्युक्तं । " निजान् जनपदधर्मान्सद्धिराचरितान् ” इत्यत्र दीर्घसत्रेष्वद्यत्वेऽप्यनुष्ठानसंभवः । संवत्सरशब्दस्त्वहःसु प्रथम एव दर्शितः । यत्तु नाद्यत्वे ५ केचिदनुतिष्ठन्तो दृश्यन्त इति उपदिष्टार्थस्य नित्यवदाम्नातस्यापि बहुभिः प्रकारैरनुष्ठानसाधनाशक्त्याफलानिच्छया वा नास्तिकतया वा यत्तु “वेने राज्यं प्रशासति " तदा प्रभृतिकं महापौर्वकालिकमनुष्ठानं दर्शयतीत्यर्थवादोऽसौ न कालोपदेशः । ज्येष्ठस्य विंशः ज्येष्ठस्य मध्यद्रव्याद्वा विंशतितमो भाग उद्धृत्य दातव्य एव । मध्यमस्य तदर्ध चत्वारिंशत्तमो भागः । एवं कनिष्ठस्य तुरीयो ज्येष्ठापेक्षयाऽशीतितमो भागः । एवर्मुद्धृते १० परिशिष्टं त्रिधा कर्तव्यं । तत्र सर्वेभ्यो द्रव्येभ्यो यद्वरं श्रेष्ठं तज्ज्येष्ठस्यैव । अथवा " द्रव्ये1 ध्वपि परं वरम् " इति पाठः । उत्तमाधममध्यमानि यानि द्रव्यादीनि सन्ति ततस्तस्माद्यदेकं श्रेष्ठं तत्तस्यैव तदुक्तं भवति । यत्र गावोऽश्वा वा सन्ति एकः श्रेष्ठो ज्येष्ठस्य दातव्यो न द्रव्यान्तरेण मूल्येन वा स्वीकर्तव्यः । त्रयाणां सर्वेषां गुणिनामयमुद्धारविधिः । गुणवतामुद्धारदर्शनात् ॥ ११२ ॥
1
www. kobatirth.org
१५
ज्येष्ठश्चैव कनिष्ठश्च संहरेतां यथोदितम् ॥
येऽन्ये ज्येष्ठकनिष्ठाभ्यां तेषां स्यान्मध्यमं धनम् ॥ ११३ ॥ त्रिभ्योऽधिकपुत्रस्य ज्येष्ठकनिष्ठयोर्गुणवतोर्यथोक्तमुद्धृत्य बहूनामपि मध्यमध्यमानां गुणवँतो मध्यमस्य यश्चत्वारिंशत्तमो भाग उक्तोऽनन्तर लोकैर्बहुभिरपि मध्यमैः संविभजनीयः । समगुणानां तु मध्यमानां सर्वेषामेकैकस्य पूर्ववचनाच्चत्वारिंशत्तमो भाग उक्त उद्धार्थः । २० तेषां स्यान्मध्यमं धनमिति उभयथा वचनं व्यज्यते । मध्यमधनं यदनन्तर लोके निर्दिष्टं तत्सर्वेषां समवायेन दातव्यं । यदि वा प्रत्येकमेव ज्येष्ठकनिष्ठतामपेक्ष्य तत्र प्रथमपक्षो निर्गुणेषु युक्तस्तेन बहुधनाह द्वितीयो गुणवत्स्वेव ॥ ११३ ॥
२५
Acharya Shri Kailassagarsuri Gyanmandir
सर्वेषां धनजातानामाददीताय्यमग्रजः ॥
यच्च सातिशयं किंचिदशत श्रायाद्वरम् ।। ११४ ।।
आद्येनार्धश्लोकेन “सर्वद्रव्याच्च यद्वरम्" इत्युक्तमनुदवति । जातशब्दो जातिपर्यायः प्रकारवचनो वा । अग्रजो ज्येष्ठः । अन्यं श्रेष्ठं । यच्च सातिशयमेकमपि वस्त्रमलङ्कारं वा दशतो दशावयवाद्वा वरमेकमाददीत । यदि दशगावोऽश्वा वा सन्ति तदा एकं श्रेष्ठमाददीत । अर्वाग्दशावयवाद्वा न लभते । वर्गे दशशब्दः । अन्ये तु स्वार्थे तसिं चाचक्ष्यते ।
१. ण-र-उद्धृतपशिष्टं । २ ण-र-सर्वत्र गुणानाम् । ३ ण-र-मतो ।
For Private And Personal Use Only