SearchBrowseAboutContactDonate
Page Preview
Page 791
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिभाष्यसमलंकृता। [ नवमः तच्च सत्यां शक्तौ पत्युरिच्छा सा । अनिच्छायां तु त्याग एव । यच्चेदं पतितास्वपि वस्त्रान्नदानं देयं चेत्यादि वक्ष्यति तद्ब्रह्महत्यादिषु प्रायश्चित्तेषु भैक्ष्यभोजनारम्भे निवासप्राप्तौ प्रतिषेधवचनमिति वक्ष्यामः । सर्वथा तु पुनर्व्यभिचारिण्या भरणं नास्ति । न चात्र त्यागः श्रुतो येन संभोगविषयतया कल्पेत । “ सोमोऽददत्" इत्यादिमन्त्रार्थवादेभ्यो देवतानां दातृत्वं प्रतीयते । अथवा विवाहे देवताभार्या भवत्यत उच्यते । देवदत्तामिति । विन्देत नात्मन इच्छया यथान्यद्गोहिरण्याद्यापणभूमौ लम्यते नेयं भार्या । अत उच्यते नेच्छयात्मन इति । देवेभ्यो हितं त्यक्तायां भार्यायां वैश्वदेवादिक्रियानिमित्ते नास्ति देवहितं । अतस्तां द्विगाणां द्विषतीमपि बिभूयात् । पातित्ये तामधिकारप्राप्तां पतिविन्देत ॥ ९५ ॥ प्रजनार्थ स्त्रियः सृष्टाः संतानार्थ च मानवाः ॥ तस्मात्साधारणो धर्मः श्रुतौ पन्या सहोदितः ॥ ९६ ॥ प्रजनं गर्भग्रहणम् । सन्तानो गर्भाधानम् । तस्माद्धेतोरपत्योत्पत्तेरुभयाधीनत्वाद्वेदे स्त्रीपुंसयोः साधारणो धर्मः पन्या सह पुंस उक्तः । अतः केवलस्याधिकाराभावात् । स्त्रियो द्वेष्या अपि न त्याज्याः ॥ ९६ ॥ कन्यायां दत्तशुल्कायां म्रियेत यदि शुल्कदः॥ देवराय प्रदातव्या यदि कन्याऽनुमन्यते ॥ ९७ ॥ यस्याः पित्रादिभिर्गृहीतं शुल्कं न च दत्ता केवलवचनेन देयत्वेन व्यवस्थिता अत्रान्तरे स चेन्नियेत तदाऽन्यद्रव्यवद्देवरेषु प्रजार्थेषु वा युधिष्ठरादिवत् तदभावे सपिण्डेष्वतो विशेषार्थमिदमुच्यते । देवराय प्रदातव्येति न सर्वेभ्यो भर्तृभ्रातृभ्यो नापि सपिंडेभ्यः । २० किं तकस्मै देवरायैव । तत्रापि कन्याया अनुमतौ सत्यां । अथासत्यां कन्यायाः शुल्कस्य च का प्रतिपत्तिः । यदि कन्यायै रोचते ब्रह्मचर्य तदा शुल्कं कन्यापितृपक्षाणामेव । अथ पत्यन्तरमर्थयते तदा प्राग्गृहीतं शुल्कं त्यक्त्वाऽन्यस्मादादाय दीयते ॥९७ ॥ आददीत न शुद्धोऽपि शुल्कं दुहितरं ददन् ॥ शुल्कं हि गृह्णन्कुरुते छन्नं दुहितृविक्रयम् ॥ ९८ ।। इच्छातः शुल्कग्रहणे पूर्वेण विधिरुक्तः कस्यचित्तत एवाऽऽशङ्का स्याददोषं शुल्कग्रहणं शास्त्रे गृहीतशुल्काया विशेष उक्तो यतोऽत इमामाशङ्कामपनेतुमाह । १ ऋग्वेदे ८।३।२८॥ २ ण-र-इति । ३ ण-र-प्राप्ता सर्वेषु वा युधिष्ठिरादिदत्ता । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy