________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः। रसो मधुरादिः सलिलगुणः गन्धः सुरभिरसुरभिश्च । स भूमेर्गुणः । तथा च वैशेषिकाः । क्षितावेव गन्ध इत्येते सांसिद्धिका एकैकस्य गुणाः संसर्गात्तु संकीर्यन्ते । तदुक्तं 'यो यो यावतिथ' इति । एतच्च गुणानुकथनमध्यात्मचिन्तायामुपयुज्यते। उक्तं हि पुराणकारेण-" दशमन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः ॥ भौतिकास्तु शतं पूर्ण सहस्रं त्वभिमानिनः" ॥ अहंकारचिन्तकाः । "महात्मकाः सहस्राणि दश तिष्ठन्ति विज्वराः ॥ पूर्ण ५ शतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः ॥ पुरुषं निर्गुणं प्राप्य परिसंख्या न विद्यते" ॥७॥
यत्माग्द्वादशसाहस्रमुदितं दैविकं युगम् ॥ तदेकसप्ततिगुणं मन्वन्तरमिहोच्यते ॥ ७९ ॥ एकसप्ततिर्दैविकानि युगानि मन्वन्तरं नाम कालः ॥ ७९ ॥ मन्वन्तण्यसंख्यानि सर्गःसंहार एव च ॥
क्रीडन्निवैतत्कुरुते परमेष्ठी पुनःपुनः ।। ८० ॥ नैषा संख्या विद्यत इत्यसंख्यानि । ननु चतुर्दश मन्वन्तराणीति संख्या श्रूयते ज्योतिःशास्त्रादौ । उच्यते। आवृत्त्या ह्यसंख्यानि । यथा द्वादशमासाः । सर्गसंहारयोरप्यावृत्तिरनुपरतैव । क्रीडन्निवैतत्कुरुत इति । सुखार्थितया क्रीडा । तस्य चाप्तकामत्वादानन्दैकरूपत्वाच्च । न क्रीडाप्रयुक्तौ सर्गसंहारवत इव शब्दः प्रयुक्तः । अत्र परिहारः स प्रागुक्त १५ एव । लीलयाऽपि कौतुकेनापि लोके रानादीनां प्रवृत्तिर्दृश्यत इति ब्रह्मविदः ॥ १० ॥
चतुष्पात्सकलो धर्मः सत्यं चैव कृते युगे ॥
नाधर्मेणागमः कश्चिन्मनुष्यान्प्रतिवर्तते ॥ ८१ ॥ चत्वारः पादा यस्य चतुष्पाद्धर्मः । यागादेश्च धर्मत्वात्तस्य चानुष्ठेयस्वभावत्वाद्विग्रहाभावान्न पादशब्दः शरीरावयववचनः । किं तर्हि अंशमात्रवचनः । न हि धर्मस्य २० शरीरमस्ति पुरुषविधं पशुपक्ष्यादिविधं वा । तेन स्वांशैश्चतुर्भिरुपेतश्चतुप्पादुच्यते । तेन योऽयं धर्मः चतुप्पात्सकलः कृतयुग आसीत् यागस्य तावत्प्रयोगावस्थस्य चत्वारो होतृकाः । होता ब्रह्मा उद्गाता अध्वर्युरिति । चत्वारो वर्णाः कर्तार आश्रमा वा । सर्वथा यावान्वेदे धर्म उक्तः स सर्वस्तस्मिन्कालेंऽशतोऽपि न हीनः अविगुणः सर्वोऽनुष्ठीयते । बाहुल्येन चतुःसंख्याः।
२५ एवं दानादिप्वपि योज्यम् । दाता द्रव्यं पात्रं भावतुष्टिः । अथवा यागदानतपांसिज्ञानं च । तथा वक्ष्यति-'तपः परमिति' । अथवा धर्मप्रतिपादकं वाक्यं धर्मः।
१ इ-ख-लीलया निप्रयोजनाऽपि लोके राजादीनाम् । २ फ-भावस्तुतिः ।
For Private And Personal Use Only