________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता।
[प्रथमः स ब्रह्मा तावती दीर्घा निशां निद्रां अनुभूय प्रतिबुध्यते । ततः पुनर्जगत्सृजति । ५ स्वापो ब्रह्मण उक्तरूपः । न ह्यसौ प्राकृतपुरुषवत्स्वपिति नित्यं प्रतिबोधात् । तत्र सर्ग
क्रममाह । 'मनः सदसदात्मकमिति' । ननु चाप एव ससर्जादावित्युक्तम् । केचिदाहुविविधः प्रलयः महाप्रलयोऽवान्तरप्रलयश्च । अवान्तरप्रलयेऽयं क्रमः । मनश्चात्र न तत्त्वान्तर्गतं तस्य पूर्वमुत्पन्नत्वात् । किं तर्हि प्रजापतिः प्रबुद्धः मनःसर्गाय सृजति
नियुक्ते इत्यर्थः । द्वितीये तु महाप्रलयपक्षे मनः कारणत्वान्महत्तत्त्वमेव मनस्ततश्च १० प्रागुक्तम् । महानिति । पुराणे हि “मनो महान्मतिर्बुद्धिमहत्तत्वं च कीर्त्यते ॥ पर्यायवाचकाः शब्दा महतः परिकीर्तिता" इति ॥ ७४ ॥
मनः सृष्टिं विकुरुते चोद्यमानं सिसूक्षया ॥
आकाशं जायते तस्मात्तस्य शब्दं गुणं विदुः ॥ ७५ ॥
उक्ताऽप्येषा तत्त्वस्य सृष्टिर्यो विशेषो नोक्तस्तत्प्रतिपादनाय पुनरुच्यते । ब्रह्मणा १५ चोद्यमानं तस्मान्नोदितादाकाशं जायते । तस्याकाशम्य शब्दाख्यो गुणो भवति । गुण आश्रित उच्यते । आकाशं तस्याश्रयः । न ह्याकाशं विना शब्दस्य संभवः ॥ ७९ ॥
आकाशात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः॥ बलवाञ्जायते वायुः स वै स्पर्शगुणो मतः ॥ ७६ ॥
भूताद्भूतान्तरस्योत्पत्तिर्नेष्यते । महतः सर्वभूतानामुत्पत्त्यभ्युपगमात्तेनैवं व्याख्या२० यते । आकाशादनंतरं, महतो विकुर्वाणात्स्पर्शमात्रभावं गताद्वायुर्जायते । सर्वगन्धान्छु
चीनशुचींश्च वहति । अथ च शुचिः पवित्रः । बलवान् । यावती काचिब्दलकृतिश्चेष्टारूपा सा वायुकर्मणः । कम्पाक्षेपोर्ध्वाधस्तिर्यग्गमनादिलक्षणा यत्किञ्चिच्चलितं स्पन्दितं तत्र्व वाय्वायत्तमित्येतत्प्रदर्शयितुं बलवानित्युक्तम् । उत्तरत्रापि याः पञ्चम्यस्ता न जन्यर्थापेक्षाः। किं तर्हि वायोः परतोऽनन्तरमित्येवं योजनीयाः ॥ ७६ ॥
वायोरपि विकुर्वाणाद्विरोचिष्णु तमोनुदम् ॥
ज्योतिरुत्पद्यते भास्वत्तद्रूपगुणमुच्यते ॥ ७७ ॥
विरोचिष्णु भास्वदिति समानार्थेन शब्दद्वयेन स्वपरप्रकाशता प्रतिपाद्यते । स्वयं दीप्तिमत्परं च भासयति ॥ ७७ ॥
ज्योतिषश्च विकुर्वाणादापो रसगुणाः स्मृताः ॥ ३० अद्भयो गन्धगुणा भूमिरित्येषा सृष्टिरादितः ॥ ७८ ॥
१फ-स्पर्शमात्राभावम् । २ इ-सर्वगतत्वात् ।
२५
For Private And Personal Use Only