________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्यायः ]
मनुस्मृतिः ।
वर्तन्ते । हानिरपायः । एकं सहस्रं हनिं त्रेतायां कृतयुगात् । एवं त्रेतातो द्वापरस्य द्वापरात्कलेः । एवं च त्रीणि वर्षसहस्राणि त्रेता द्वे द्वापर एकं कलिरिति भवति । शतानि हीयन्ते सन्ध्या तदंशयोः । विशिष्टोऽहः संघातो युगाख्यस्तस्य विशेषाः कृतादयः ।
तावच्छतीति ईकारः स्मर्तव्यः । इह स्मृतिः । तावतां शतानां समाहारः । तावच्छब्दस्य ‘बहुगणवतुडतीति' । वत्वन्तत्वात्संख्यासंज्ञायां सत्यां ' संख्यापूर्वी द्विगुरिति' द्विगुसंज्ञायां सत्यां ‘टापोपवादो द्विगोरिति ङीप् । शतं परिमाणमस्य इति । ‘यत्तदेतेभ्य’ इति वतुप् ।‘आ सर्वनाम्न' इत्याकारः । अन्यथा बहुव्रीहौ तावन्ति शतानि यस्याः शतशब्दस्याकारान्तत्वात्‘अजाद्यतष्टाप् ' इति टापा भवितव्यम् । तस्मिन्कृते तावच्छता इति स्यादित्यभिप्रायः ॥ ७० ॥
Acharya Shri Kailassagarsuri Gyanmandir
दैविकानां युगानां तु सहस्रं परिसंख्यया || ब्राह्ममेकमज्ञेयं तावती रात्रिरेव च ॥ ७२ ॥
यदेतत्परिसंख्यातमादावेव चतुर्युगम् ॥ एताद्वदशसाहस्रं देवानां युगमुच्यते ॥ ७१ ॥
यदेतदिति लौकिकी वाचो युक्तिः । समुदायेन प्रक्रान्तोऽर्थः परामृश्यते । यदेतचतुर्युगं परिसंख्यातं चत्वारिसहस्राणीत्यादिना निश्चितसंख्यमादौ प्रागस्माच्छोकादेकस्य चतुर्युगस्थ द्वादशभिः सहस्रैर्देवानां युगमुच्यते । द्वादशचतुर्युगसत्राणि देवयुगं नाम काल इत्यर्थः । सहस्रशब्दात्स्वार्थेऽण् । द्वादशचतुर्युगसहस्राणि परिमाणं यस्मिन्निति १५ विग्रहः ॥ ७१ ॥
३५
१०
देवयुगसाहस्रं ब्राह्ममेकमहः । तावती ब्रह्मणोरात्रिर्देवयुगसहस्रमेव । परिसंख्यया संख्यानेन यत्स॒हस्रमिति संबन्धः । श्लोकपूरणार्थश्चायमनुवादः । न ह्यसंख्यया सहस्रादि- २० व्यवहारः । हेनौ तृतीया ॥ ७२ ॥
For Private And Personal Use Only
तद्वै युगसहस्रान्तं ब्राह्मं पुण्यमहर्विदुः ॥
रात्रिं च तावतीमेव तेऽहोरात्रविदो जनाः ॥ ७३ ॥
|
युगसहस्रमन्तो यस्याह्नस्तद्युगसहस्रान्तम् । ये मनुष्या एतज्जानते तेऽहोरात्रविदः । किं तेषामित्यपेक्षायां पुण्यं भवतीति संबन्धः । ब्राह्मस्याह्नः परिमाणवेदनं पुण्यमतस्त- २५ द्वेदितव्यमिति स्तुत्या विधिप्रतिपत्तिः ॥ ७३ ॥
तस्य सोsहर्निशस्यान्ते प्रसुप्तः प्रतिबुध्यते ॥
प्रतिबुद्ध सृजति मनः सदसदात्मकम् ॥ ७४ ॥
१ ड - ख- हीयते । २ व्या. सू. ( १।१।२३ ) । ३ व्या. सू. ( २1१/५२ ) । ४ टापः - आकारान्त स्त्रीलिं गशब्दा-अजाद्यतष्टापू ( व्या. सू. ( ४।१।४ ) । ५ व्या. सू. ( ५/२/३९) । ६ व्या. सु. ( ६।३।९१ ) ७ व्या, सू. ( ४। ११४ ),