________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[प्रथम क्रमत्वाच्च विशेषमाह । अहः कृष्णः पक्षः । शुक्लः पक्षः शर्वरी रात्रिः । कर्मचेष्टाभ्य' इति युक्तः पाठः । यथा — स्वप्नायेति । तादर्थ्यमेव विषयभावेन विवक्षितं वृत्तानुरोधादतः सप्तमी ॥ ६६ ॥
देवे रात्र्यहनी वर्ष प्रविभागस्तयोः पुनः॥
अहस्तत्रोदगयनं रात्रिः स्यादक्षिणायनम् ॥ ६७ ॥
वर्ष मनुष्याणां द्वादशमासास्तदेकमहोरात्रं देवानाम् । तयोश्च विभाग उदगयनदक्षिणायनाभ्याम्। तत्रोदीची दिशमभिप्रतिष्ठमानस्यादित्यस्य षण्मासा उदगयनं भवति । अयनं गमनमधिष्ठानं वा । तस्यां दिशि षण्मासानादित्य उदेति । ततः परावृत्तस्य दक्षिणायनम् । तथा हि दक्षिणां दिशमाक्रम्योदीचीं हित्वा ह्युदयं करोति ॥ ६७ ॥
ब्राह्मस्य तु क्षपाहस्य यत्प्रमाणं समासतः॥ एकैकशो युगानां तु क्रमशस्तन्निबोधत ॥६८ ॥
ब्रह्मा प्रजानां स्रष्टा तस्य यो लोकस्तत्र क्षपाहस्याहोरात्रस्य यत्पमाणं युगानां चैतत्समासतः संक्षेपेण निबोधत मत्सकाशाच्छृणुत । एकैकशः एकैकस्य युगस्य ।
वक्ष्यमाणस्य प्रकरणस्य पिण्डार्थकथनार्थोऽयं श्लोकः श्रोतृणामवर्धानार्थः । तथा च १५ संबुध्यन्ते निबोधतेति । प्रकृते कालविभागे पुनः प्रतिज्ञाकरणं तरत्वज्ञापनार्थम् । तेन
वक्ष्यमाणोऽर्थो न शास्त्रारम्भशेष एव । अपि तु धर्मायापि । तथा च वक्ष्यति ' ब्राह्म पुण्यमहर्विदुरिति ' । तद्विज्ञानाच्च पुण्यं भवतीत्यर्थः ॥ ६८ ॥
चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् ॥ तस्य तावच्छती संध्या संध्यांशश्च तथाविधः ॥ ६९ ॥
प्रकृतत्वादेविकानि वर्षाणि परिगृह्यन्ते । तथा च पुराणकारः " इत्येतदृषिभिर्गीतं दिव्यया संख्यया द्विजाः ॥ दिव्येनैव प्रमाणेन युगसंख्या प्रकीर्तिता" ॥ तानि चत्वारिसहस्राणि कृतयुगं नाम कालः। तस्य कृतयुगस्य तावन्त्यैव शतानि चत्वारि संध्या । संध्यांशस्तस्य तथाविधस्तत्परिमाणश्चत्वारिवर्षशतानीत्यर्थः । तत्रातीतस्य कालस्यागामिनश्च
स्वभावानुवृत्तिः सा संध्या। उभयकालधर्मानुविधानं संध्यांशः । यत्रेषत्पूर्वधर्मानुवृत्तिर्भूयसी २५ भाविनो युगस्य ॥ ६९॥
इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु ॥
एकापायेन वर्तन्ते सहस्राणि शतानि च ॥ ७० ॥ कृतयुगादन्येषु त्रेतादिषु त्रिषु युगेषु सन्ध्यासन्ध्यांशसहितेषु सहस्राण्येकापायने १फ-अवधारणार्थः । २ ख-फ-तद्वेदनाच ।
For Private And Personal Use Only