________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः ।
संबन्धेन वा । विवस्वत्सुत इति समासपदरूपं शब्दान्तरं कृष्णसर्पनरसिंहादिशब्दवत् ॥ ६२ ॥
स्वायंभुवाद्याः सप्तैते मनवो भूरितेजसः॥
स्वे स्वेऽन्तरे सर्वमिदमुत्पाद्यापुश्चराचरम् ॥ ६३ ॥ . अत्र सप्त मनवो मया प्रोक्ताः । अन्यत्र चतुर्दश संपद्यन्ते । स्वे स्वेऽन्तरेऽवसरे ५ प्राप्तेऽधिकारकाले इति यावत् । उत्पाद्य प्रजा आपुः पालितवन्तः । स्वे स्वेऽन्तरेऽधिकारावसरे यस्य मनोर्यस्मिन्काले प्राप्तः सर्गस्थितिपालनाधिकारः । अन्ये त्वन्तरशब्दं मासादिशब्दवत्कालविशेषवाचिनं मन्यन्ते तदयुक्तम् । मनुशब्दोपसंहितः कालविशेषविषयो मन्वन्तरो नाम कालो न तु केवल इति ॥ ६३ ॥
निमेषा दश चाष्टौ च काष्ठा त्रिंशत्तु ताः कला ॥ १०
त्रिंशत्कला मुहूर्तः स्यादहोरात्रं तु तावतः॥ ६४ ॥ स्थितिप्रलयकालपरिमाणनिरूपणाथै ज्योतिःशास्त्रगोचरं कालविभागं वक्तुमुपक्रमते । अष्टादश निमेषाः काष्ठा नाम कालो भवति । त्रिंशत्काष्ठाः कलाः । त्रिंशत्कला एको मुहूर्तः स्यात् । तावतः त्रिंशदित्यर्थः । त्रिंशन्मुहूर्तः अहोरात्रम् । विद्यादिति क्रियापदमाहत्य तावदिति द्वितीयाबहुवचनम् ॥ ६४ ॥
_ अहोरात्रे विभजते सूर्यो मानुषदैविके ॥
रात्रिः स्वमाय भूतानां चेष्टायै कर्मणामहः ॥६५॥ अथ कोऽयं निमेषो नाम । अक्षिपक्ष्मणोनैसर्गिकं कैम्प उन्मेषसहचारी । अन्यैस्तु पठितं यावता कालेनाविकँतमक्षरमुच्चार्यते स निमेषः । अहश्च रात्रिश्च ते अहोरात्रे । तयोविभागं करोति आदित्यः । उदित आदित्ये यावत्तदीया रश्मयो दृश्यन्ते तावदहळव- २० हारः । अस्तमिते तु प्रागुदयाद्रात्रिव्यवहारः । मनुष्यलोके देवलोकेवा। यत्र तादित्यो न व्याप्नोति रश्मिभिस्तत्र कथमयमहोत्रविभागो विज्ञेयोऽत आह । रात्रिः स्वमायेति। स्वयंप्रभेषु भूतेषु नित्यप्रकाशित्वात्कर्मचेष्टाकार्यारम्भेण स्वापेन च विभागः। यथैवौषधीनां नियतः प्रादुर्भावकालः स्वाभाव्यादेवं कर्मचेष्टास्वापावपि कालस्वभावत एव नियतौ ॥ ६५ ॥ पित्र्ये रात्र्यहनी मासः प्रविभागस्तु पक्षयोः॥
२५ कर्मचेष्टास्वहः कृष्णः शुक्लः स्वमाय शर्वरी ॥६६॥ यो मनुष्याणां मासः स पितृणामहर्निशम् । कतरदहः कतमा च रात्रिरिति प्रविभागः ? इदमहरियं रात्रिरित्येष विभागः । पक्षयोः पञ्चदशरात्रिसंमितयोरर्धमासाख्ययोर्व्यवस्थितः । पक्षाश्रित इत्यर्थः । एकः पक्षोऽहरपरो रात्रिस्तयोश्च भिन्नस्वभावत्वान्नियत
१फ-नैपर्गिकोन्मेषसहचारी। २ ड-व्यक्तम् । अ-ब-व-क-फ-प्रकाशत्वात् ।
For Private And Personal Use Only