________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri
मेधातिथिभाष्यसमलंकृता ।
• [प्रथमः एतद्वोऽयं भृगुः शास्त्रं श्रावयिष्यत्यशेषतः ॥ एतद्धि मत्तोऽधिजगे सर्वमेषोऽखिलं मुनिः ॥ ५९॥
एतच्छास्त्रं वो युष्माकमयं भृगुरशेषतः सर्व श्रावयिष्यति कर्णपथं नेष्यत्यध्यापयिष्यति व्याख्यास्यति च । एतच्छास्त्रस्यैतदा प्रत्यवमर्शः । एतच्छास्त्रमेव मुनिरखिलमशेषं मत्तो मत्सकाशादधिजगेऽधिगतवान् ज्ञातवान् । गुरुमुखाद्विद्या निष्क्रामतीव शिष्यः प्रतिगृह्णातीवेत्यतः अपादाने तसिर्मत्त इति युक्तः । भृगुस्तु महर्षीणां प्रख्याततरप्रभावः । तस्य प्रवक्तृत्वनियोगेनानेकाशेषनिरतिशयविद्याविदामागमनपरंपरयागतमेतच्छास्त्रमिति प्रदर्श्यते । अतश्च केषांचिदयमपि प्रवृत्तिप्रकारो दृश्यते । बहुभ्यो महात्मभ्यः शास्त्रमिदमवतीर्णमिति किमिति नाधीमह इत्यध्ययनादिप्रवृत्त्याभिमुख्यं शास्त्रे जन्यते ॥ ५९ ॥
ततस्तथा स तेनोक्तो महर्षिर्मनुना भृगुः ॥ तानब्रवीदृर्षान्सर्वान् पीतात्मा श्रूयतामिति ॥ ६० ॥
स महर्षिभृगुस्तेन मनुना तथोक्त एष वः श्रावयिष्यतीति नियुक्तस्ततोऽनन्तरं तानृषीनब्रवीच्छ्यतामिति । प्रीतात्माऽनेकशिष्यसन्निधावहमत्र नियुक्त इति बहुमानेन प्रीतात्मत्वं प्रवक्तृत्वयोग्यतयाज्ञाकरोऽहमनेन संभावित इत्यात्मनि भृगोर्बहुमानः ॥६० ॥
स्वायंभुवस्यास्य मनोः षड्श्या मनवोऽपरे ॥ सृष्टवन्तः प्रजाः स्वाः स्वा महात्मानो महौजसः ॥ ६१ ॥
उपाध्यायो धर्मान्पृष्टो जगदुत्पत्त्यादि वर्णितवान् । तथैव शिष्योऽपि तन्नियुक्तस्तच्छेपमेव वर्णयितुमारब्धः । अस्येति साक्षात्कारेण मनुं प्रत्यवमृशति । अस्मदुपाध्यायस्य
वायंभुव इति ख्यातस्य षडन्येऽपरे मनवो वंश्या एकस्मिन्वंशे कुले जाताः सर्वे वंश्याः । २० सर्वे हि साक्षाद्ब्रह्मणा सृष्टा इत्येककुलसंभवादश्या उच्यन्ते । अथवा एकस्मिन्कार्येऽधि
कृता वंश्या एककर्मान्वयेन प्राणिनां वंशव्यवहारो भवति । 'द्वौ मुनी व्याकरणस्य वंश्यौ" । तं चैकं धर्म दर्शयति “सृष्टवन्तः प्रनाः स्वाः स्वाः” इति । मन्वन्तरे मन्वन्तरे यस्य मनोरधिकारः स एव प्रजानां पूर्वमन्वन्तरविनष्टानां स्रष्टा पालयिता च । अतो येन याः प्रजाः सृज्यन्ते तास्तस्य स्वा भवन्ति ॥ ६१ ॥
स्वारोचिषश्चोत्तमश्च तामसो रैवतस्तथा ।। चाक्षुषश्च महातेजा विवस्वत्सुत एव च ॥ ६ ॥ तान्मनून्नामतो निर्दिशति । महातेजा इति विशेषणम् । अन्यानि नामानि रूढ्या
१ड-अमितौजसः।
For Private And Personal Use Only