________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः। बीजं शरीरोत्पत्तिकारणम् । स्थास्नु वृक्षादिजन्महेतुभूतम् । चरिष्णु जगमम् । समाविशत्यधितिष्ठति प्रतिनिबध्यते । यदा तेन संसृष्टः प्राणादिभिस्तदा मूर्ति विमुञ्चत्याबध्नाति शरीरं गृह्णातीत्यर्थः ॥ ५६ ॥
एवं स जाग्रत्स्वमाभ्यामिदं सर्व चराचरम् ।
संजीवयति चाजस्रं प्रमापयति चाव्ययः॥ ५७॥ उपसंहारः पूर्वोक्तस्य । आत्मसंबन्धिभ्यां जाग्रत्स्वप्नाभ्यां चराचरं स्थावरं जगमं जीवयति मारयति च जगत् । अव्ययोऽविनाशी ॥ १७ ॥
इदं शास्त्रं तु कृत्वाऽसौ मामेव स्वयमादितः ॥ विधिवद्राहयामास मरीच्यादींस्त्वहं मुनीन् ॥ ५८ ॥
इह शास्त्रशब्देन स्मार्तो विधिप्रतिषेधसमूह उच्यते । न तु ग्रन्थस्तस्य मनुना १० कृतत्वात् । तथा हि मानव इति व्यपदेशोऽस्य इतरथा हि हैरण्यगर्भ इति व्यपदिश्येत । केचित्तु हिरण्यगर्भेनापि कृते ग्रन्थे मनुना बहूनां प्रकाशितत्वात्तेन व्यपदेशो युज्यत एव । यथा हिमवति प्रथममुपलभ्यमाना गङ्गाऽन्यतोऽप्युत्पन्ना हैमवतीति व्यपदिश्यते, यथा च नित्यं . दर्शनात्काठकं प्रवचनं कठेन व्यपदिश्यते । सत्स्वप्यन्येष्वध्येतृष्वध्यापयितृषु च प्रवचनप्रकर्षात्कठेन व्यपदेशः । नारदश्च स्मरति । 'शतसाहस्रोऽयं ग्रन्थः प्रजाप्रतिना कृतस्ततः १५ स मन्वादिभिः क्रमेण संक्षिप्त इति । अतोऽन्यकृतत्वेऽपि मानवव्यपदेशो न विरुद्धः। शास्त्रशब्देन ग्रन्थाभिधानमपि शासनरूपार्थप्रतिपादकत्वादृष्टमेव । मामेव ग्राहयामासाह तेनाध्यापित इत्यर्थः । स्वयमादितो विधिवदित्येभिः पदैरागमस्याविभ्रंश उच्यते । ग्रन्थकारेण हि स्वकृतो ग्रन्थो यः स्वयमध्याप्यते प्रथमं तत्र मात्राऽपि न परिहीयते । अन्यस्य हि तस्मादधिगतवतोऽन्यमध्यापयतो न तद्रन्थाविनाशे यत्नो भवति कर्तरप्यध्यापित- २० पूर्वस्य प्रतिष्ठापितो मया पूर्वमयं ग्रन्थ इति द्वितीयवारं प्रमादालस्यादिना भ्रंशः संभाव्यत अत आदित इत्युक्तम् । विधिवच्छिष्योपाध्याययोरनन्यमनस्कतादिगुणोऽवहितचित्तता विधिः । अर्हे वतिः । मरीच्यादींस्त्वहं मुनीन्मरीच्यादयः प्रसिद्धप्रभावास्तैरप्येतन्मत्सकाशादधीतमित्यात्मनो विशिष्टशिष्यसंबन्धेन सिद्धमौपाध्यायिकं दर्शयन्महर्षीणां शास्त्रमाहास्म्येन च श्रद्धातिशयं जनयत्यध्ययनाविरामाय । एवंविधमेतन्महच्छास्त्रं यन्मरीच्यादिभि- २१ रप्यधीतम् । एष चेदृशो महात्मा मनुस्तेषामुपाध्याय इति युक्तमतस्य सकाशादेतद्रन्थाध्ययनमित्याशास्त्रपरिसमाप्ते!परमन्ते श्रोतार इत्युभयथाऽपि शास्त्रप्रशंसा ॥ ५८ ॥ ....
For Private And Personal Use Only