SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिभाष्यसमलंकृता । [प्रथमः शङ्कात्मवाध एवमुपमीयतेऽसावपि । तस्यापीदं जगत् कुटुम्बभूतमिति प्रशंसा । प्रधानविषयो वाऽयं श्लोको वर्णनीयः । तदा प्रधानं स्वपिति । यदा युगपत्सर्वाणि भूतानि तत्र प्रलीयन्ते तदात्मतां कारणरूपतामापद्यन्ते विकारावस्थामुद्गच्छन्ति युगपद्यावन्ति त्रैलोक्यो दरवर्तीनि । स्वापश्च परिणामनिवृत्तिर्न पुनर्ज्ञानोपसंहतिः अचेतनस्य प्रधानस्य । ५ सुखं चोपचारतोऽचेतनत्वादेव ॥ १४ ॥ तमो यं तु समाश्रित्य चिरं तिष्ठति सेन्द्रियः॥ न च स्वं कुरुते कर्म तदोत्क्रामति मूर्तितः॥ ५५ ॥ इदानीं संसारिणः पुरुषस्य मरणं देहान्तरप्राप्तिश्चाभ्यां श्लोकाभ्यां कथ्यते । तमो ज्ञाननिवृत्तिस्तां समाश्रित्य चिरं तिष्ठत्यास्ते सेन्द्रियः । न च स्वं कुरुते कर्म श्वास१० प्रश्वासादिकं.। तदा मूर्तितः शरीरादुत्क्रमति गच्छति । ननु च सर्वगत आत्माऽऽकाशवद्विभुस्तस्य कीदृश्युक्रान्तिः? कर्मोपार्जितशरीरत्याग एवोक्रान्तिः । न पुनर्मूर्तस्यैवार्थस्य देशाद्देशान्तरगमनम् । अथवा कैश्चिदिष्यते अस्त्यन्यदन्तराभवं शरीरं सूक्ष्मं यस्येयमुक्रान्तिः । अन्यस्त्वन्तराभवदेहो नेष्यते । यथाह भगवा व्यासः । “ अस्मिन्देहे व्यतीते तु देहमन्यन्नराधिप । इन्द्रियाणि वसन्त्येव तस्मान्ना१५ स्त्यन्तराभवः ।” सांख्या अपि केचिन्नान्तराभवमिच्छन्ति विन्ध्यवासप्रभृतयः । कोऽयम न्तराभवो नामास्मिञ्छरीरे नष्टे मातृकुक्ष्यादिस्थानं द्वितीयशरीरग्रहणार्थ यावन्न प्राप्त तावदन्तरा निरुपयोगिशरीरमुपजायते सूक्ष्मं यस्य न क्वचित्संयोगो नाग्न्यादिदाहो न महाभूतैः प्रतिबन्धः । अन्ये तु मूर्ति परमात्मानमाहुः । सर्वात्मरूपः परमात्मा समुद्र स्थानीयस्ततः प्रादुर्भवन्ति जीवा अविद्यावशाद्भेदमुपयन्ति महोदधेरिवोर्मयः । तस्य च २० ततो निष्क्रामतः पुर्यष्टाकाख्यं लिङ्गमभ्युपगम्यते । धर्माधर्मपूर्वकृतवशात्प्रत्येकस्य जीवस्य वासःस्थानीयं सूक्ष्मं शरीरम् । यथा पुराण उक्तम् । “पुर्यष्टकेन लिङ्गेन प्राणाख्येन स युज्यते । तेन बद्धस्य वै बन्धो मोक्षो मुक्तस्य तेन तु” ॥ ते च प्राणापानव्यानोदानसमानाः पञ्चबुद्धीन्द्रियवर्ग एवं कर्मेन्द्रियवर्गोऽष्टमं मन इत्येतत्पुर्यष्टकम् । तच्छरीरं न नश्यति आमोक्षावस्थायाः। तदुक्तं “संसरति निरूपभोगभावैरधिवासितं लिङ्गम्" ॥१५॥ यदाणुमात्रिको भूत्वा बीजं स्थास्नु चरिष्णु च ॥ समाविशति संसृष्टस्तदा मूर्ति विमुञ्चति ॥ ५६ ॥ अण्व्यः सूक्ष्मा मात्रा अवयवा यस्य सोऽणुमात्रिकः । पुर्यष्टकमन्तराभवदेहो वा। स्वभावत एव वाऽऽत्मा नः । सूक्ष्माः यथोक्तम् । “फ. एष आत्माऽन्तर्हृदयेऽणीयानित्यादि १ इ-अविकारावस्थामापद्यन्ते । २ ड-नीरूपभोगं । २५ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy