SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९ अध्यायः ] मनुस्मृतिः। पुनरप्रकाशः संवृत्तः । आत्मनीति । यथाऽन्ये भावाः प्रकृतावन्त(यन्त एवं सोऽन्यत्रेत्येवं न । किं तात्मन्येव प्रलीनः । न हि तस्यान्या प्रकृतिरस्ति यत्रान्तर्धीयेत सर्वभूतानां तत्प्रकृतित्वात् । जगत्सर्वव्यापारान्निवृत्तिर्वाऽन्तर्धानम् । भूयः कालं कालेन पीडयन् । सृष्देत्येतक्रियापेक्षः शताद्रष्टव्यः प्रलयकालं सर्गस्थितिकालेन विनाशयन् । भूयः पुनरित्यर्थः । वक्ष्यति 'अनन्ताः सर्गसंहारा' इति ॥ ५१ ॥ यदा स देवो जागर्ति तदेवं चेष्टते जगत् ॥ यदा स्वपिति शान्तात्मा तदा सर्व निमीलति ॥ ५२ ॥ स देवो यदा जागर्ति यदेतदिच्छतीदं जगदुत्पद्यतामेतां स्थितिं च कालमियन्तं लभतामिति तदा चेष्टते । मानसवाचिकभौतिकैर्व्यापारैरान्तरैर्बाह्येश्च श्वासप्रश्वासाहारविहारकृषियागादिभिर्युक्तं भवति । यदा स्वपिति यदा निवृत्तेच्छो भवति जगत्सर्गस्थितिभ्यां १० तदा सर्व निमीलति प्रलयं प्राप्नोति । जागर्यास्वापश्च प्रजापतेरिच्छा प्रवृत्तिनिवृत्ती उच्यते । शान्तात्मत्त्वं भेदावस्थोपसंहारः ॥ १२ ॥ तस्मिन् स्वपति तु स्वस्थ कर्मात्मानः शरीरिणः ॥ स्वकर्मभ्यो निवर्तन्ते मनश्च ग्लानिमृच्छति ॥ ५३॥ पूर्वव्याख्यानश्लोकोऽयं विस्पष्टार्थः । स्वस्थे सुस्थिरे । शान्तात्मवच्छुद्धरूपे स्वात्म- १५ न्यवस्थानमौपाधिकभेदनिवृत्तिः । कर्मात्मानः कर्मप्रधानाः संसारिणः क्षेत्रज्ञाः शरीरिणः कर्मसंबन्धेन शरीरसंबन्धानुभावादेवमुच्यन्ते । तस्मिन्स्वपति शयाने स्वकर्मभ्यो निवर्तन्ते। शरीरचेष्टानिवृत्तिरेतेनोच्यते।मनश्च ग्लानिमृच्छति एतेनान्तरव्यापारनिन्वृत्तिः। अतो बाह्यान्तरव्यापारनिवृत्त्या प्रलयः प्रतिपादितो भवति । ग्लानिर्निरुत्साहः स्वव्यापारान्निःशक्ततामृच्छति प्राप्नोति ॥ ५३ ॥ युगपत्तु प्रलीयन्ते यदा तस्मिन्महात्मनि ॥ तदाऽयं सर्वभूतात्मा सुखं स्वपिति निर्वृतः ॥ ५४ ॥ यत्तदोर्व्यत्ययेनायं श्लोको व्याख्यातव्यः । अन्यथा पूर्व श्लोकापेक्षयेतरेतराश्रयः प्रसज्येत । एतदुक्तम् । यदा स्वपिति तदा निमीलति सर्वम् । सुखं स्वपिति निर्वृतः सुखस्वरूपमेव परं ब्रह्म न तस्य स्वापावस्थायां सुखमन्यदा दुःखम् । स्वापश्च तस्य यादृशः २५ स प्रागुक्त एव । निर्वतिश्च तस्य सर्वकालम् । न ह्यसौ परमात्माऽविद्योपप्लवतरङ्गैरामश्यते । केवलसुखमयस्तस्य सर्वस्य कृर्तृत्वं उपपद्यते। यथाऽयं पुरुष उपरतो गृहकृत्येभ्यः कृतकृत्यतयाऽर्जितं मया धनं गृहोपयोगि निरुपद्रवश्वास्मि संवृत्त इत्येवं सुखं स्वपिति निर्वृतो निरा २० For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy