________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८ मेधातिथिभाष्यसमलंकृता ।
[प्रथमः प्ररोहाः । वल्लयो व्रतत्यः भूमरुत्पत्य वृक्षमन्यं वा कंचित्परिवेष्टयोर्ध्वमारुहन्ति । सर्वमेतत् वृक्षवत् बीजकाण्डरुहम् ॥ ४८ ।।
तमसा बहुरूपेण वेष्टिताः कर्महेतुना ॥ अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः ॥ ४९ ॥
कर्म अधर्माख्यं हेतुर्यस्य तमसस्तेन वेष्टिता व्याप्ताः । बहुरूपेण विचित्रदुःखानुभवनिमित्तेन । यद्यपि सर्वं त्रिगुणं तथाऽप्येषांतम उद्रिक्तम् । अपचिते सत्त्वरजसी । अतस्तमोबाहुल्यान्नित्यं निर्वेददुःखादियुक्ता अधर्मफलमनुभवन्तः सुचिरमासते । सत्त्वस्यापि तत्र मावात् कस्यांचिदवस्थायां सुखलेशमपि भुञ्जते। तदाह । सुखदुःखसमन्विता इति । अन्तःसंज्ञा बुद्धिस्तल्लिङ्गस्य बहिर्विहारव्याहारादेः कार्यस्य चेष्टारूपस्याभावादन्तःसंज्ञा उच्यन्ते । अन्यथाऽन्तरेव सर्वः पुरुषश्चतयते । अथवा यथा मनुष्याः कण्टकादितोदं प्राक् चेतयन्ते नैवं स्थावराः ते हि महान्तं प्रतोदं परशुविदारणादिदुःखसंज्ञायामपेक्षन्ते । यथा स्वापमदमूर्छावस्थागताः प्राणिनः ॥ ४९ ॥
एतदन्तास्तु गतयो ब्रह्माद्याः समुदाहृताः ॥ घोरेऽस्मिन् भूतसंसारे नित्यं सततयायिनि ॥ ५० ॥
एषोऽन्तोऽवसानं वल्लीगतिर्यासां गतीनां ता एतदन्ताः। कृतकर्मफलोपभोगार्थमात्मनस्तच्छरीरसंबन्धो गतिरुच्यते । अस्याः स्थावरात्मिकाया गतेरन्या निकृष्टा दुःखबहुला गतिर्नास्ति । ब्रह्मगतेश्चान्याऽऽद्योत्तमा गतिरानन्दरूपा नास्ति । एता गतयः शुभाशुभैः कर्मभिर्धर्माधर्माख्यैः प्राप्यन्ते । परब्रह्मावाप्तिस्तु मोक्षलक्षणा केवलानन्दरूपा ज्ञानात् ज्ञानकर्म
समुच्चयावति वक्ष्यामः । भूतसंसारे भूतानां क्षेत्रज्ञानां संसारे जन्ममरणप्रबन्धे जात्यन्तरा२० गमने । घोरे प्रमादालस्यवतां भीषणे । इष्टवियोगानिष्टयोगोत्पत्त्या सततं सर्वकालं ग
मनशालिनि विनाशिन्यसारे ऽपि नित्यं घोरेन कदाचिदघोरे । देवादिगतिष्वपि सुचिरं स्थित्वा मर्तव्यमिति नित्यं घोरः । तदनेन धर्माधर्मनिमित्तत्वसंवर्णनेन संसारस्य शास्त्रस्य महाप्रयोजनता प्रतिपदिता भवति । शास्त्राद्धि धर्माधर्मयोविवेकज्ञानमित्यध्येतज्यम् ॥ ५० ॥
एवं सर्व स सृष्ट्वेदं मां चाचिन्त्यपराक्रमः ॥ आत्मन्यन्तर्दधे भूयः कालं कालेन पीडयन् ॥ ५१ ॥
एवं किंचित्साक्षात्किंचित्प्रजापतिनियोगेन स ‘गवान् सर्वमिदं जगत्सृष्ट्वोत्पाद्य मां च जगत्स्थितौ नियोज्य स्वेऽन्तरेऽचिन्त्य आश्चर्यरूपो महान् प्रभावः पराक्रमः सर्वविषयाशक्तिर्यस्य स सृष्ट्वाऽन्तर्दधेऽन्तर्धानं कृतव.निच्छागृहीतं शरीरं योगशक्त्योज्झित्वा
१८
For Private And Personal Use Only