________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः
मनुस्मृतिः। ऊष्मास्वेद एव तद्धेतुर्वा तापः । 'उपजायन्तेति' वा पाठः । ये चान्ये :केचिदीदृशा इति पठितव्यम् ॥ ४५ ॥
उद्भिज्जाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः॥
ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः ॥ ४६॥ उद्भेदनमुद्भित् । भावे क्विम् । ततो जायन्त इति उद्भिजाः । उप्तं बीजं भूमिं च ५ भित्त्वा विदार्य जायन्ते वृक्षाः । सर्वे बीजात्काण्डाच्च प्ररोहन्ति जायन्ते मूलस्कन्धादिना दृढीभवन्ति । तथौषध्यः औषधय इति युक्तमीकारः । 'कृदिकारादिति' छान्दसो वा । इदं तासां स्वाभाविकं कर्म । पाकान्ताः फलपाकः अन्तो नाश आसामिति । पक्के फले ब्रीह्यादयो नश्यन्ति, बहुना च पुष्पफलेनोपगताः युक्ता भवन्ति । औषधीनां वृक्षाणां च यथासंभवमेतद्विशेषणम् ॥ ४६ ॥
अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः॥
पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः ॥ ४७ ॥ विना पुष्पेण फलं जायते येषां ते वनस्पतयः कथ्यन्ते, न वृक्षाः । पुष्पिणः फलिनश्च वृक्षा उभययोगात् क्वचिद्वनस्पतयो वृक्षा अपि उच्यन्ते, वृक्षाश्च वनस्पतयोऽपि । तत्र विशेषहेतुत्वं दर्शयिष्यासः । वयं तु ब्रूमः । नायं शब्दार्थसंबन्धविधिर्व्याकरणस्मृतिवत् । १५ तेन नायमर्थो य एवंस्वभावास्ते वनस्पत्यादिशब्दवाच्याः, किं तर्हि पुष्पफलानां जन्मोच्यते। तस्य वक्तव्यतया प्रकृतत्वात् 'क्रमं योगं तु जन्मनीति' । द्विधा फलानामुत्पत्तिः । अन्तरेण पुष्पाणि जायन्ते पुष्पेभ्यश्च, एवं पुष्पाणि वृक्षेभ्यश्च । तेन यद्यप्येवमभिधानं ये फलिनस्ते वनस्पतयो ज्ञेयास्तथापि प्रकरणसामोद्यत्तदोर्व्यत्ययः कर्तव्यः । ये वनस्पतय इति एवं प्रसिद्धास्तेमाः फलवन्तस्तेभ्यः पुष्पमन्तरेण फलानि जायन्ते इति सामर्थ्याच्चायं क्रमो- २० ऽवतिष्ठते । यथा ' वाससा स्तम्भं परिवेष्टयति' वाससि परिधातव्येऽयमर्थोऽस्य भवति । स्तम्भे निधाय वासः परिधापयेति । प्रसिद्धमप्येतदनूद्यते । तमसा बहुरूपेणेत्ये 'तत्प्रतिपादयितुम् ॥ ४७ ॥
गुच्छगुल्मं तु विविधं तथैव तृणजातयः॥
बीजकाण्डरुहाण्येव प्रताना वल्लय एव च ॥ ४८॥ २५ याः संहता भूमेद्धा एकमूला अनेकमूलाश्च लता उत्तिष्ठन्ति न च वृद्धिं महतीं प्राप्नुवन्ति तासां संघातो गुच्छगुल्मशब्दवाच्यः । तृणमूलकादिस्तयोस्तु भेदः। पुष्पवदपुष्पकृतो वाऽन्या वा तृणनातयः कुशशाद्वलशङ्खपुष्पीप्रभृतयः । प्रताना दीर्घा भूमिगतास्तृण
For Private And Personal Use Only