________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[प्रथमः एवमेतैरिदं सर्व मन्नियोगान्महात्मभिः ॥ यथाकर्म तपोयोगात् सृष्टं स्थावरजङ्गमम् ॥ ४१ ॥
एवमिति प्रकान्तप्रकारप्रत्ययपरामर्शः । एतैर्महात्मभिर्मरीच्यादिभिः । इदं सर्व स्थावरजंगमं सृष्टम् । यथाकर्म यस्य जन्मान्तरे यादृशं कर्म तदपेक्षम् । यस्यां जातौ यस्य तु युक्तमुत्पत्तुं कर्मवशात्स तस्यामेवोत्पादितः । मनियोगान्मदाज्ञया । तपोयोगान्महत्कृत्वा तपः । यावत्किचिन्महदैश्वर्यं तत्सर्व तपसा प्राप्यमित्येतदनेनाह ॥ ४१ ॥
येषां तु यादृशं कर्म भूतानामिह कीर्तितम् ॥ तत्तथा वोऽभिधास्यामि क्रमयोगं च जन्मनि ॥ ४२ ॥
येषांभूतानां यादृशं कर्म स्वभावतो हिंस्रमहिंस्र वा तद्वत्तथैव कीर्तितम् । इदानीं १० जन्मक्रमयोगमभिधास्यामि । क्व पुनः कर्म कीर्तितं यत्रेदं यक्षरक्ष इत्यादि नामनिर्देशो न
कर्मनिर्देशः । उच्यते नामनिर्देशादेव कर्मावगतिः कर्मनिमित्तत्वादेषां नामप्रतिलम्भस्य । तथाहि । यक्षणाद्भक्षणादशनाद्वा यक्षाः । रहसि क्षणनाद्रक्षांसि । पिशिताशनात्पिशाचाः। अद्भयः सृता इत्यप्सरसः । अमृताख्यायाः सुराया अलाभादसुरा । इत्याद्यप्यूह्यम् । जन्मनि क्रमयोगो जरायुजाण्डजा इत्यादि वक्ष्यते ॥ ४२ ॥
पशवश्च मृगाश्चैव व्यालाश्चोभयतोदतः ॥ रक्षांसि च पिशाचाश्च मनुष्याश्च जरायुजाः ॥४३॥
एते जरायुजाः जरायुरुत्वं गर्भशय्या । तत्र प्रथमं ते संभवन्ति । ततो मुक्ता जायन्ते । एष एतेषां जन्मक्रमः । दन्तशब्दसमानार्थो दत्शब्दोऽन्योऽस्तीत्युभयतोदत इति प्रथमाबहुवचने रूपं युज्यते ॥ ४३ ॥
अण्डजाः पक्षिणः सो नका मत्स्याश्च कच्छपाः ॥ यानि चैवप्रकाराणि स्थलजान्यौदकानि च ॥ ४४ ॥
नकाः शिशुमारादयः । कच्छपः कूर्मः । यानि चैवंप्रकाराणि कृकलासादीनि स्थलजानि । एवं रूपाण्यौदकानि जलजानि शङ्खादीनि ॥ ४४॥
स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम् ॥
ऊष्मणश्चोपजायते यच्चान्यत्किञ्चिदीदृशम् ॥ ४५ ॥
स्वेदः पार्थिवानां द्रव्याणामग्न्यादित्यादितापसंबन्धादन्तःक्लेदस्ततो जायते दंशमशकादि । अन्यदपि यदीदृशमत्यन्तसूक्ष्मं पुत्तिकापिपीलिकादि यदूष्मण उपजायते । १ ड-प्रकारप्रत्यवमर्शः।
For Private And Personal Use Only