SearchBrowseAboutContactDonate
Page Preview
Page 788
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः। ७४३ ग्रहणं वन्ध्यास्त्रीजनन्यावपि लक्षयति प्रकृतत्वाविशेषादवमाननिमित्ताभावाच्च कर्हिचित्कदाचिवमा ननं शिष्टयर्थ परिभाषणादि ।। ८२ ॥ अधिविना तु या नारी निर्गच्छेद्रुषिता गृहात् ॥ सा सद्यः सन्निरोद्धव्या त्याज्या वा कुलसन्निधौ ॥ ८३ ॥ क्रोधेनाधिवेदनहेतुना निर्गतायास्त्यागसंनिरोधौ विकल्पतो विधीयते । ननु यथोपपन्न हेतुना भोजनाच्छादनाभिताडनादिना तत्र प्रीत्या क्रोधावमार्जनं श्वश्रूभिः श्वशुरादिभिर्वा परिभाषणं । संनिरोधो रक्षिपुरुषाधिष्ठानं । त्यागो व्याख्यातः । असंभोगः सहशय्यावर्जनं । कुलं ज्ञातयः तत्पितृपक्षाः स्पपक्षाश्च ।। ८३ ॥ प्रतिषिद्धाऽपि चेद्या तु मद्यमभ्युदयेष्वपि ॥ प्रेक्षासमाजं गच्छेदा सा दण्ड्या कृष्णलानि षट् ॥ ८४॥ १० प्रतिषेधे गुरुसंबन्धि व्ययं दण्डः क्षत्रियादिस्त्रीणां । न शास्त्रीयो ब्राह्मणीनां । न हि तत्र दण्डमात्रेण मोक्षः । किं तर्हि महता । न च तत्राभ्युदयेषु पानाशङ्का । अप्रतिषिद्धमद्यानां तु नियमेनोत्सवसमागतानामादरवती प्रवृत्तिर्दृश्यते । यां सम्यनिषेधत्यभ्युदयेध्वपीति दण्डश्चायं भ; दीयते । सत्यपि राजवृत्तित्वे " स्त्रीणां भर्ता प्रभुः" इति विज्ञायते । अन्येषामपि परिग्रहवतां भृत्यादिविषये कियति दण्डः स्वातन्त्र्येऽभ्युदयः पुत्र. १५ जन्मविवाहादय उत्सवाः । प्रेक्षा नटादिदर्शनं । समाजो नितान्तमपि जनसमूहः । तत्र कुतूहलिन्या अयं दण्डः ॥ ८४ ॥ यदि स्वाश्चापराश्चैव विन्देरन्योषितो द्विजाः॥ तासां वर्णक्रमेण स्याज्ज्यैष्ठयं पूजा च वेश्म च ॥ ८५॥ कामतः प्रवृत्ता यदि समानजातीयाश्च विन्देरन्विवाहयेयुस्तासां वर्णक्रमेण २० जात्यनुरूपं ज्यैष्टयं न वयस्तो न च विवाहकमतः । फलादिदाननिमित्ते पूजा प्रथम ब्राह्मण्यास्ततः क्षत्रियावैश्ययोरित्येष वर्णक्रमः । वेश्म प्रधानं गृहं । तद्ब्राह्मण्याः सवर्णानां विवाहकमो निश्चलः स्मृतः ॥ ८५ ॥ भर्तुः शरीरश्रुश्रूषां धर्मकार्य च नैत्यकम् ॥ स्वा चैव कुर्यात्सर्वेषां नास्वजातिः कथंचन ॥ ८६ ॥ २५ शरीरशुश्रूषा भतुरुपयोगिपाकादिलक्षणा दानभोजनप्रतिनागरणं स्वा स्वैव कुर्यात्। पृष्ठपादसंवाहननिर्णेजनादौ त्वनियमः । युगपत्संनिधौ तु शरीरावयवक्रमो वर्णक्रमेण । १ण-र-किं तन्मे महता। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy