________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७३८
मेधातिथिभाष्यसमलंकृता।
[ नवमः
अयमप्यर्थवाद एव नियोगप्रतिषेधशेषः । येऽविद्वांसः सम्यक् शास्त्रं न जानते तत्र व्यवहारिणो लिङ्गाद्यन्वयपरत्वं च न जानते तैरयं पशुधर्मः स चात्यन्तगर्हितो मनुष्याणामपि प्रोक्तः प्रवर्तितः । स चेदानींतन आदि वेने राज्ञि प्रशासति राष्ट्रं पालयति।
ननु च लिङ्गानि नैव सन्तीत्युक्तं । नैवमुद्वाहकेषु मन्त्रेषु तु सन्तीत्युक्तम् । अन्यत्र ५ तु दृश्यते । “ को वांऽशयुत्रा विधवेव देवरं मयं न योषा कृणुते सधस्थ आ" इत्यादि ।
यथा विधवा स्त्री देवरपतिं मनुष्यं कुरुते समानशयन एव को वा मनस्विनौ कुरुते येन नागच्छतः को विशेषु विवाहमन्त्रेषु स किमपत्योत्पत्तिविध्यनुक्रमरूप इत्यभिप्रायः । अन्यैविद्वद्भिरिति पठितं गर्हितो मनुष्याणां प्रोक्तः । पशूनामेष धर्मो भ्रातृस्त्रीगमनं नाम । स च प्रवृत्तो वेनस्य राज्ये ॥ ६६ ॥
स महीमखिला भुञ्जन राजर्षिप्रवरः पुरा ॥ वर्णानां संकरं चक्रे कामोपहतचेतनः ॥६७ ॥
भुञ्जन्पालयन् । कथं पुनर्वर्णसङ्करं प्रवर्तयन् राजर्षीणां प्रवरः । उक्तं महीमखिलां भुनक्ति यः महाराजत्वात् । कामेन रागादिलक्षणेनोपहता नाशिता चेतना चित्तस्थैर्य यस्य सः ॥ ६७ ॥
ततःप्रभृति यो मोहात्प्रमीतपतिका स्त्रियम् ॥ नियोजयत्यपत्यार्थ तं विगर्हन्ति साधवः ॥ ६८॥ अस्पष्टार्थोऽर्थवादः ॥ १८॥ यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः ॥ तामनेन विधानेन निजो विन्देत देवरः ॥ ६९॥
नियोगरूपत्वात्कन्यागतोऽयं धर्म उच्यते । वाचा सत्ये कृते वाग्दाने निवृत्त एकेन दत्ताऽपरेण प्रतिगृहीता । तामनेन वक्ष्यमाणेन विधानेन निजसोदरो देवरो विन्देत विवाहयेत् ॥ ६९ ॥
यथाविध्यधिगम्यैनां शुक्लवस्त्रां शुचिव्रताम् ॥
मिथो भजेताप्रसवात्सकृत्सकहतातौ ॥ ७० ॥ २५ यथाविधि यथाशास्त्रं । वैवाह्यो विधिस्तथा विवाह्य वाचनिकोऽयं विवाहः। पुनर्भूश्च
तथोच्यते । नवा व्यूढाऽपि सती भार्या भवति । केवलं परार्थोऽस्या वाचनिको विवाहः । तथा च दर्शयति ( अग्रे ७१ श्लोके ) " न दत्वा कस्यचित्कन्यां पुनरन्यस्य दीयत" इति । नासौ देवराय दीयत इत्यर्थः । अदत्ता चास्वभूता कथमिव भार्या भवेत् शुक्लवस्त्रां नियमो गमनेऽन्यस्मिन्नपि नियोगे धर्मोऽयमिष्यते ॥ ७० ॥
१ ऋग्वेदे १० ।। २ फ-कोवासपुत्रो विधवेव देवरं मयानुदोषो कृणुते । ३ र-स्य । ४ र-विवाहसंस्कारः।
For Private And Personal Use Only