________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७३४
मेधातिथिमाष्यसमलंकृता।
[ नवमः
फलमभिसंधाने चोभयोः उदाहरणार्थत्वाच्च गवाश्वादिग्रहणस्य श्वमाारादिष्वप्ययमेव न्यायः । तर्हि किमर्थ " यद्यन्यगोषु " इति । प्रायेण गावः पुरुषाणां भवन्ति । न तथा विहङ्गमादय इति प्रसिद्धेरनुवादोऽसौ । दास्यः सप्तभिर्दासयोनिभिरुपगताः। प्रसवः कायजन्म । तं प्रति तत्रेत्यर्थः ॥ ५५ ॥
एतद्वः सारफल्गुत्वं बीजयोन्योः प्रकीर्तितम् । अतः परं प्रवक्ष्यामि योषितां धर्ममापदि ॥ ५६ ॥
सारं प्रधानं फल्ग्वसारम् । उपसंहारः पूर्वप्रकरणस्य । उत्तरार्धेन वक्ष्यमाणसूचनम् । आपज्जीवनस्थितिहेतुभूतभोजनाच्छादनाभावः संतानविच्छेदश्च ॥ ५६ ॥
भ्रातुज्येष्ठस्य भार्या या गुरुपत्न्यनुजस्य सा ॥ यवीयसस्तु या भार्या स्नुषा ज्येष्ठस्य सा स्मृता ॥ ५७ ॥
श्लोकद्वयेन प्राकृतव्यवस्थामनुवदन्नापदि नियोगं विधातुं ज्येष्ठोऽये जातः अनुजः पश्चाज्जातः कनीयान्यवीयाननुज एव ॥ १७ ॥
ज्येष्ठो यवीयसो भार्या यवीयान्वाऽग्रजस्त्रियम् । पतितौ भवतो गत्वा नियुक्तावप्यनापदि ॥ ५८॥ इतरेतरभार्यागमने ज्येष्ठानुजयोः पातित्यमनापदि सत्यपि नियोगे ॥ ५८ ॥ देवराद्वा सपिंडाद्वा स्त्रिया सम्यङियुक्तया । प्रजेप्सिताऽधिगन्तव्या संतानस्य परिक्षये ॥ ५९ ॥
सर्वविशेषेण विशिष्टोऽनेन नियोगो विधीयते । संतानस्य परिक्षये। नियुक्तया देवरादिभ्यः सम्यक् प्रजोत्पादयितव्येति । यदुक्तं " योषितां धर्ममापदि" इति सेयमापत्। २० संतानस्य परिक्षयः संतानशब्देने पुत्र उच्यते । दुहिता च पुत्रिका । सा हि पितृवंशं
तनोति नान्या । तस्य परिक्षयोऽनुत्पत्तिरुत्पन्ननाशो वा पुत्रिकायाश्च करणं । केवलाया न हि पुत्रिकायाश्च पुत्रस्य करणं न हि स्त्रियाः केवैलायां पुत्रिकायामन्यस्मिन्वा पुत्रप्रतिनिधावधिकार इति वक्ष्यामः । नियुक्तोत्पादयेदनुज्ञातया गुरुभिः ।
कुतः पुनः । गुरुभिरिति स्मृत्यन्तरनिदर्शनात् । अथवा नियोगशब्दादेव नियोगे हि गुरु२५ संबन्धी लोकोऽप्युच्यते । न हि विशेषेण नियुक्तोऽध्यापयतीत्युच्यते । आचार्येण नियुक्तः
करोत्यनुवदति । गुरवश्व श्वश्रूश्वशुरदेवराइयो भर्तृतगोत्रा द्रष्टव्याः । न पित्रादयः । एतेनापत्येनापत्यवन्तस्ते उच्यन्ते । तर्हि विशेषेण येषां चोपकारस्तत्कृत और्ध्वदेहिको
१फ-वानु । २ र-ण-ल-तत्तर्हि । ३र-ण-ल-फल्गुरसारार्थः । ४ ण-र-प्राकृती । ५र-णसंतानपरिक्षये । ६ ण-र-शब्दे । ७ ण-र-पुत्राश्च । ८ ण-र-नहि केवलाया पुत्रिकाया ।
For Private And Personal Use Only