SearchBrowseAboutContactDonate
Page Preview
Page 778
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः । पूर्वस्य निर्देशोऽयम् । यथा गवादिषु स्थावरेषु चैवं मनुष्येष्वपि कुर्वन्ति क्षेत्रस्वामिनामर्थ प्रयोजनं बीजकार्य संपादयन्ति ॥ ११ ॥ फलं त्वनभिसंधाय क्षेत्रिणां बीजिना तथा ॥ प्रत्यक्षं क्षेत्रिणामों बीजाद्योनिर्बलीयसी ॥५२॥ अविशेषेणोक्तं क्षेत्रिणां फलं न बीजिनस्तस्यावशिष्टविषयत्वमाह। अनभिसंधायेति। ५ अभिसंधानं बीजक्षेत्रिणोरितरेतरसंविब्यवस्थापनं नष्टाश्वदग्धरथवत् । उभयोरावयोः फलमस्त्विति यत्र वचनव्यवस्था न भवति तत्र क्षेत्रिण एव प्रत्यक्षोऽर्थो निश्चितं फलं । प्रत्यक्षशब्देन निःसंदिग्धतामाह । यतो बीजाद्योनिर्बलीयसी क्षेत्रमधिकबलं सैत्यां तु संविदि ॥ १२ ॥ क्रियाभ्युपगमात्वेतद्धीजार्थ यत्प्रदीयते ॥ तस्येह भागिनौ दृष्टौ बीजी क्षेत्रिक एव च ॥ ५३॥ अनभिसंधाय क्षेत्रिणः फलमुक्तमभिसंधाने किंबीजिन उतोभयोरिति संशय उभयोरित्याह । क्रियाया अभ्युपगमोऽङ्गीकरणमेवमेवैतदिति संविलक्षणः यो निश्चयः सा क्रियाऽभिप्रेता तामभ्युपगमय्य बीजार्थ बीजकार्यफलनिष्पत्त्यर्थं यत्पदीयते सामर्थ्याहीनमिति गम्यते । तस्येह द्वावपि भागिनौ ॥ १३ ॥ ओघवातात्दृतं बीजं यस्य क्षेत्रे प्ररोहति ॥ क्षेत्रिकस्यैव तब्दीजं न बीजी लभते फलम् ॥ ५४ ॥ परक्षेत्रे वप्तु/जनार्श उक्तस्तत्र मन्येतँ पुरुषापराधात्तस्य युक्तोपहारो नूनमसौ क्षेत्रं जिहीर्षति । नो चेत्किमिति परक्षेत्रे वपतीति येन तु स्वक्षेत्रे व्युतमोघवाताभ्यामन्यत्रांनीतं तम्य कोऽपराधो यदि स्वं द्रव्यं हारयति तदर्थमाह । ओघवातात्दृतं बीजं सर्वत्र २० क्षेत्रप्राधान्यमित्यर्थः । ओघो जलनिषेकः । तेन वायुना चाहतं नीतं यस्य क्षेत्रे प्ररोहति तस्यैव तद्भवति । एतेनैव सिद्धे विस्पष्टार्थ न बीजी लभते फलमिति ॥ ५४॥ एष धर्मो गवाश्वस्य दास्युष्ट्राजाविकस्य च ॥ विहङ्गमहिषीणां च विज्ञेयः प्रसवं प्रति ॥ ५५ ॥ अपत्याधिकारात्ताद्वषयतैव माविज्ञायीति गवाश्वादिग्रहणम् । यदि वा बीजफल- २५ व्यवहारः सस्यादिविषयतया प्रसिद्धतरस्तन्निवृत्त्यर्थमाह । द्विपदां चतुष्पदां पक्षिणां स्थावराणां च सर्वत्रैष धर्मः । एष इति । द्वयं प्रत्यवमृश्यते । अनभिसंधाने यस्य क्षेत्रं तस्य १ण-र-सर्वस्य । २ क्षात्रणः । ३ -र-सत्यत्व भवादति । ४ ण-र-चैवं । ५ फ-वप्ता । ६फ-बाप । ७ -र-मन्यते । ८ र-ए-ल-पुरुषापत्रस्य । ९फ-अतः। १० फ-नीतं । ११फसर्व । १२ फ-ततं । १३ फ-विशिष्टाय । १४ फ-रस्य । १५र--ल-अनभिसंघानिते। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy