SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७३२ मेधातिथिभाष्यसमलंकृता । [ नवमः संस्कारादि कृतं भवेद्वस्त्रहिरण्यादि चोपयुक्तं स्यात्तदा समतामात्रकरणे प्रभवति न पुनः सर्व समवापविभागं । अन्ये तु क्लीबादीनामर्हितविभागकानां पश्चादभागहरत्वनिमित्तक्लीबत्वादिपरिज्ञानान्नास्ति भागोपहार इति सकृन्निपातप्रयोजनं वदन्ति । एवं द्वित्रिचतुर्भाग हराणां यदृच्छया ये समतां प्रकल्पयेयुः पश्चादनुशयनात्प्राक्तनं व्यवस्थानमतिक्रम्यापहर्तु ___ लभेरन् । पतितस्य तु लब्धभागस्याप्यपहारं वक्ष्यामि । सकृत्कन्या प्रदीयते । यद्यपि चानेन वाग्दानोत्तरकालं प्रागपि विवाहाद्भर्तुः स्वतोच्यते। तथापि “ दत्तामपि हरेत्कन्यां" "तेषां तु निष्ठा विज्ञेया विद्वद्भिः सप्तमे पद" इत्यादिपर्यालोचनया विशिष्टविषयतैव। सा च व्याख्याता । सकृदाह ददामीति गवादयो हि येनैव रूपेणात्मनः स्वं तेनैवान्यस्मा आपद्यन्ते । कन्या तु दुहितृत्वेन स्वं सती १० भार्यात्वेनानिवृत्तस्वसंबन्धा दीयत इति पृथगुपन्यासः ।। ननु चानिवर्तमाने पितुः स्वसंबन्धः कथं कन्यादाने निवर्तते । एतद्धि दानस्य रूपं यदेकस्य संबन्धो निवर्ततेऽन्यस्योपजायत इति । नैष दोषः । द्वावत्र संबन्धावपत्यापत्यवद्भावः स्वस्वामिसंबन्धश्च । तत्रापत्यापत्यवद्भावो न निवर्तते । इतरस्तु निवर्तते । तथा च “बाल्ये पितुर्वशे तिष्ठत्" इति पितुश्चात्र स्वाम्यनिवृत्तिमाह " पाणिग्राहस्येति " १५ भर्तुस्तदुत्पत्तिम् ॥ ४७ ॥ यथा गोश्वोष्ट्रदासीषु महिष्यजाविकासु च ॥ नोत्पादकः प्रजाभागी तथैवान्याङ्गनास्वपि ॥ ४८ ॥ येऽक्षेत्रिणो बीजवन्तः परक्षेत्रप्रवापिणः॥ ते वै सस्यस्य जातस्य न लभन्ते फलं कचित् ॥ ४९ ॥ प्रसिद्धमेवैतत् । अक्षेत्रिणो बीजवन्तो व्रीह्यादिवीजस्वामिनः सस्यस्य मुद्गमाषादे र्जातस्य न लभन्ते फलं परक्षेत्रे चेद्रुत्पत्तिः ॥ ४९ ॥ यदन्यगोषु वृषभो वत्सानां जनयेच्छतम् ॥ गोमिनामेव ते वत्सा मोघं स्कंदितमाषेभम् ॥ ५० ॥ पूर्वेण स्थावरेषु धर्मः प्रसिद्धवदुदितो ज्ञापितो वा । अनेन तिया परिगृहीतेषु २५ गवादिषु निदश्यते । अन्यदीयो वृषभो यद्यप्यन्यगीषु वत्सान्बहूनपि जनयेन वृषभ स्वाम्येकमपि वृषभं लभेत सर्व एव ते वत्सा गोमिनां गोस्वामिनां आर्षभमृषभसंबन्धिस्कंदितं बीजनिषेको मोघं वृथा निष्कलम् ॥ ५० ॥ तथैवाक्षेत्रिणो बीजं परक्षेत्रप्रवापिणः । कुर्वन्ति क्षेत्रिंणामर्थ न बीजी लभते फलम् ॥५१॥ १ण-र-आ वाप । २ फ-शयतात् । ३ अ. ५ श्लो, १४८ । ४ अ. ५ श्लो. १५६ । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy