SearchBrowseAboutContactDonate
Page Preview
Page 775
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ७३० www. kobatirth.org मेधातिथिभाष्यसमलंकृता । ४१ ॥ तत्प्राज्ञेन विनीतेन ज्ञानविज्ञानवेदिना ॥ आयुष्कामेन वप्तव्यं न जातु परयोषिति ॥ एवं पूर्वपक्षे सिद्धान्तमाह । क्षेत्रप्राधान्यमनेनोच्यते । ननु च नात्र क्षेत्रप्राधान्यामिधायकं किंचित्पदमस्ति केवलं परक्षेत्रोपगमननिषेधः श्रूयते । वप्तव्यं न जातु परयोषितीति परदारेषु बीजनिषेको न कर्तव्य इत्यस्यार्थः । न पुनर्यस्य क्षेत्र तस्यापत्यमित्यनेनोक्तं भवति । सत्यम् । “ तथा नश्यति वै क्षिप्तं बीजं परपरिग्रह " इत्यनेनैकवाक्यत्वात् दृष्टपत्यापहारलक्षणदोषानिमित्तोऽयं प्रतिषेधो नादृष्टार्थ उपगमनप्रतिषेधः । स हि चतुर्थे वित एव । " न हीदृशमनायुष्यम् ” इत्यादिना । तस्मादन्यशेषतया प्रतिषेधश्रुतेरनन्तरेणैकवाक्यत्वादसति स्वातन्त्र्ये युक्ता क्षेत्रप्राधान्यप्रतिपादन. १० परता । प्राज्ञेन सहजया प्रज्ञया । विनीतेन पित्रादिभिरनुशिष्टेन । ज्ञानविज्ञानवेदिना करणसाधनौ ज्ञानविज्ञानशब्दौ । ज्ञानं वेदाङ्गशास्त्राणि । विज्ञानं तर्ककलादिविषयं । एतदुक्तं भवति । यस्य काचिद्बुद्धिर्विद्यते तेनैवं न कर्तव्यं यतः सर्वशास्त्रेष्वेषा स्थितिः । यस्तु मूर्खस्तिर्यक्प्रख्यः सोऽत्र नाधिकृत एवेत्यनुवादोऽयं । आयुष्कामेनेति चातुर्थिकस्य प्रतिषेधस्य प्रत्यभिज्ञानार्थमेतत्ततश्च पृथक्प्रतिषेधशङ्का निरस्ता भवति ॥ ४१ ॥ अत्र गाथा वायुगीताः कीर्तयन्ति पुराविदः । यथा बीजं न वप्तव्यं पुंसा परपरिग्रहे ॥ ४३ ॥ गाथाशब्दो वृत्तविशेषवचनः । यथोक्तं पिङ्गलेन “ अत्रासिद्धं गाथेति " । अत्रिगीताः परंपरागताः श्लोका अप्युच्यते । तदेषापि यज्ञगाथा गीयत इत्युक्त्वा श्लोका उत्तरत्र वेदे पठ्यन्ते । यदस्य पूर्वपमरं तदस्येति वायुना गीताः पठिता वायुप्रोक्ताः पुराविदः २० पुराणकल्पान्तरवेदिनः परपरिग्रहे परक्षेत्रे ॥ ४२ ॥ नश्यति पुर्यथा विद्धः खे विद्धमनुविध्यतः ।। तथा नश्यति वै क्षिप्रं बीजं परपरिग्रहे ॥ ४३ ॥ ता इदानीं गाथा दर्शयति । इषुः शरः । स नश्यति खे छिद्रे अन्येनेष्वासेन विद्ध मृगमनुविध्यतः पूर्वस्य वेधकस्यात्र स्वाम्यं । अथवाऽऽकाशे खे शरः क्षिप्तो लक्ष्यमन्तरेण २९ नश्यति निष्फैलो भवति विद्धं चानुविध्यतः । एवं परस्त्रियं तेजो निःक्षिप्तं तस्य बीजिनः क्षेत्रस्वामिनोऽपत्यं भवति ॥ ४३ ॥ पृथोरपीमां पृथिवीं भार्यां पूर्वविदो विदुः ।। स्थाणुच्छेदस्य केदारमाहुः शल्यवतो मृगम् ॥ ४४ ॥ १५ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only [ नवमः १ ण-र-दृष्टापहार । २ श्लो. १३४ पृ. ३४७ । ३ ण-र-विशेषतया । ४ ण-र-लक्षण । ५ णर तथा विषं योऽनुविध्यति तथा नश्यति विप्रं बीजं निक्षिप्तं नश्यति ।
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy